________________
कीर्तनात् । आमाजुत्तो, पालरूपमिदम्पौषध
नाभ्युपगमेन च प्रतिमात्वं सम्भाव्यते कथमन्यथाऽसावेकमासं प्रथमायाः प्रतिमायाः पालनेन, द्वौ मासौ द्वितीयायाः पालनेन, एवं यावदेकादश मासानेकादश्याः पालनेन, पञ्चसा नि वर्षाणि पूरितवानित्यर्थतो वक्ष्यतीति, न चायमर्थो दशाश्रुतस्कन्धादावुपलभ्यते, श्रद्धामात्ररूपायास्तत्र तस्याः प्रतिपादनात् । 'अहासुत्तं' ति सूत्रानतिक्रमेण, यथा कल्प-प्रतिमाचारानतिक्रमण, यथामार्ग-क्षायोपशमिकभावानतिक्रमेण, 'अहातचं' ति यथातत्त्वं दर्शनप्रतिमेति शब्दस्यान्वनतिक्रमण, 'फासेइ'त्ति स्पृशति प्रतिपत्तिकाले विधिना प्रतिपत्तेः 'पालेइ ' ति सततोपयोगप्रतिजागरणेन रक्षति । ' सोहइ 'त्ति शोभयति गुरुपूजापुरस्सरपारणककरणेन शोधयति वा निरतिचारतया 'तीरेइ ' ति पूर्णेपि कालावधावनुबन्धात्यागात् , कीर्चयति तत्समासाविदचेहादिमध्यावसानेषु कर्त्तव्यं तच्च मया कृतमिति कीर्त्तनात् , आराधयति एभिरेव प्रकारैः संपूर्णनिष्ठां नयतीति । 'दोच्चं ' ति द्वितीयां व्रतप्रतिमाम्, इदश्चास्याः स्वरूपम्-"दसणपडिमाजुत्तो, पालंतोणुव्वए निरइयारे । अणुकंपाइगुणजुओ, जीवो इह होइ वयपडिमा ॥२॥"'तचं' ति तृतीयां सामायिकप्रतिमाम्, तत्स्वरूपमिदम् –“ वरदसणवयजुत्तो, सामाइयं कुणइ जो उ संझासु । उक्कोसेण तिमासं, एसा सामाइयप्पडिमा ॥३॥" 'चउत्थं ' ति चतुर्थी पौषधप्रतिमामेवस्वरूपाम् -" पुन्बोदियपडिमजुओ, जो कुणइ पोसहं तु संपुग्नं । अहमिचउद्दसाइसु, चउरो मासा चउत्थीं सा ॥ ४॥" 'पंचम' ति पञ्चमी प्रतिमाप्रतिमा कायोत्सर्गप्रतिमामित्यर्थः, स्वरूपश्चास्याः-" सम्ममणुव्वयगुणवयसिक्खावयवं थिरो य नाणी य । अट्ठमिचउद्दसीसु, पडिमं ठाएगराईयं ॥ ५ ॥ असिणाणवियडभोई, मउलिकडो दिवसबंभयारी य । राई परिमाणकडो, पडिमावजेसु दियहेसु ॥ ६॥" · असिणाणवियडभोई ' अस्नानोरात्रिभोजी चेत्यर्थः ।
dwww.jainelibrary.org
For Private & Personal Use Only
Jain Education International