SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ पर्याप्तकानां तावन्त्येवापर्याप्तकानामपि। अत्र च भेदानां तुल्यत्वं द्रष्टव्यं न तु जीवानाम् । यत एकपर्याप्तकाश्रयणासंख्यया अपर्याप्तका भवन्ति । सूक्ष्मा अपि पर्याप्तकापर्याप्तकभेदेन द्विविधा एव । किंत्वपर्याप्तकनिश्रया पर्याप्तकाः समुत्पद्यन्ते, यत्रैकोऽपर्याप्तकस्तत्र नियमादसंख्येयाः पर्याप्तकाः स्युः। इत्याचारागप्रथमश्रुतस्कन्धप्रथमाध्ययनद्वितीयोद्देशकनियुक्तिगाथावृत्तौ २३७ प्रतौ १९ पत्रे ॥२॥ पृथिव्युपमर्दैन तज्जीवानां यादृशी वेदना भवति तजिज्ञासया लिख्यते "पायच्छेयणभेयण जंघोरु तहेव अंगुवंगेसु । जह हुंति नरा दुहिया, पुढविकाए तहा जाण ॥ ९७॥” पायेत्यादि' यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया नरा दुःखितास्तथा पृथिवीकायेऽपि वेदना जानीहि, यद्यपि पादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति, तथापि तच्छेदनानुरूपा वेदनास्त्येवेति दर्शयितुमाह-"णत्थि य सि अंगमंगा, तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरेंति, केसिंचिस घायए पाणे ॥९८॥" पूर्वार्द्ध गतार्थम् । केषाश्चित्पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति । केषाञ्चित्तु प्राणानप्यतिपातयेयुरिति।तथा हि भगवत्यां दृष्टान्त उपात्तो यथा-चतुरङ्ग(न्त)चक्रवर्त्तिनो गन्धपेषिका यौवनवर्तिनी बलवत्या मलकप्रमाणं सचित्तपृथिवीगोलकमेकविंशतिकृत्वो गन्धपके कठिनशिलापुत्रकेण पिंष्यात्ततस्तेषां पृथिवीजीवानां कश्चित्सङ्घहितः। कश्चित्परितापितः । कश्चिद्यापादितः कश्चित्परं किल न तेन शिलापुत्रकेण स्पृष्टोऽपि।इत्याचाराङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययनद्वितीयोद्देशकनियुक्तिगाथावृत्ती २३७ प्रती २१ पत्रे ॥३॥ Jain Eduele emangga For Private & Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy