SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ विचार० ॥ १ ॥ Jain Education 50% ये सिद्धान्तमयाशयाः कृतधियः संदृन्धशास्त्राश्च ये तेषामेष विशेषलेशलिखनायासोऽस्तु हासाय वै । अन्येषां तु मुदे भविष्यति जने हास्या न कृत्यासहा, किं क्रीडाशकटी करोति विकटीभावं शिशूनां मुदः ॥ ५ ॥ अत्र च यथाक्रममङ्गोपाङ्गाद्यागमप्रकरणविचारा उद्देशकादिक्रमेण लिख्यन्ते । तत्र च प्रथममाचाराङ्गविचारा-स्तत्राऽपि पूर्व ज्ञानाधिकारतया मंगलत्वेन जातिस्मृतिमान् कियतो भवाञ्जानातीति जिज्ञासया च तत्स्वरूपं लिख्यते " से जं पुण जाणेज्जा सहसम्मइयाए” इत्येतस्य निर्युक्तौ - " एत्थ य सहसम्मइयाए जं पयं तत्थ जाणणा होइ । ओहीमणपज्जवनाणकेवले जाइसरणे य ॥ ६४ ॥ एतद्वत्तिश्च - अत्र च 'सहसम्मइयाएत्ति' सूत्रे यत्पदं तत्र 'जाणणत्ति' ज्ञानमुपात्तं भवति 'मन ज्ञाने' मननं मतिरितिकृत्वा, तच्च किंभूतं? इति दर्शयति--अवधिमनः पर्यायकेवलजातिस्मरणरूपमिति । तत्रावधिज्ञानी संख्येयानसंख्येयांश्च भवाञ्जानाति । एवं मनः पर्याय- | | ज्ञान्यपि । केवलज्ञानी तु नियमतोऽनन्तान् । जातिस्मरणस्तु नियमतः संख्येयानिति । शेषं स्पष्टम् । इत्याचारांग - प्रथमश्रुतस्कन्धप्रथमाध्ययनप्रथमोद्देशकनिर्युक्तिगाथावृत्ती २३७ प्रतौ १४ पत्रे ॥ १ ॥ एकपर्याप्तकाश्रयेणासंख्येया अपर्याप्तका भवन्तीति जिज्ञासया लिख्यते " जे बायरे विहाणा, पज्जन्ता तत्तिया अपजत्ता । सुहुमावि होंति दुविहा, अपजत्ता वेव पज्जन्त्ता ॥ ७९ ॥ " " जे बायरे इत्यादि' यानि बादरपृथ्वीकाये विधानानि भेदाः प्रतिपादिताः, तानि यावन्ति For Private & Personal Use Only रत्नाकरः । H १ ॥ jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy