________________
विचार
रत्नाकरः।
त उदयनिस्सिया द्वन्द्रियादिजाकाराणां साधनागफलं च नान्या वत
व्यवहारं हि केवलिनोऽपि सुतरां मन्यन्त इत्यर्थगर्भितो जलविचारो लिख्यते
“संति पाणा उदयनिस्सिया जीवा अणेगे, इह च खलु भो अणगाराणां उदयजीवा वियाहिया” इत्येतस्य वृत्ती-शाक्यादयस्तूदकाश्रितानेव दीन्द्रियादिजीवानिच्छन्ति नोदकमित्येतदेव दर्शयति-खलुशब्दोऽवधारणे। इहैव ज्ञातपुत्रीये प्रवचने द्वादशाङ्गे गणिपिटकेऽनगाराणां साधूनामुदकरूपा जीवाः। चशब्दात्तदाश्रिताश्च पूतरकच्छेदनकलोद्दनकभ्रमरकमत्स्यायो जीवा व्याख्याताः। अवधारणफलं च नान्येषामुदकरूपाजीवाःप्रतिपादिताः। यद्येवमुदकमेव जीवस्ततोऽवश्यं तत्परिभोगेसति पातकभाजःसाधव इत्यत्रोच्यते-नैवत(नत)देवं यतो वयं त्रिविधमकायमाचक्ष्महे-सचित्तं मिश्रमचित्तं च । तत्र योऽचित्तोऽप्कायस्तेनोपयोगविधिः साधूनां नेतराभ्यां, कथं पुनरसौ भवत्यचित्तः किं खभावादाहोखिच्छस्त्रसम्बन्धात्? उभयथाऽपीति । तत्र यः खभावादेवाऽचित्तीभवति न बाह्यशस्त्रसम्बन्धात्तमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परिभुञ्जते, अनवस्थाप्रसङ्गभीरुतया। यतोऽनुश्रूयते-भगवता किल श्रीवर्द्धमानस्वामिना विमलसलिलसमुल्लसत्तरङ्गःशैवलपटलनसादिरहितो महाहृदो व्यपगताशेषजलजन्तुकोऽचित्तवारिपूर्णः स्वशिष्याणां तृड्बाधितानामपि पानाय नानुजज्ञे, तथाऽचित्ततिलशकटस्थण्डिलपरिभोगानज्ञा चानवस्थादोषसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञापनार्थ च, तथाहि-सामान्यश्रुतज्ञानी बाह्येन्धनसम्पर्कारुषितस्वरूपमेवाचित्तमिति व्यवहरन्ति जलं, न पुनर्निरिन्धनमेवेति । अतो यहाह्य शस्त्रसंपर्कात्परिणामान्तरापन्नं वर्णादिभिस्तदचित्तं साधुपरिभोगाय कल्पते । इत्याचाराङ्गप्रथमश्रुत
For Private 3 Personal Use Only
JainEducations
ainelibrary.org