SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ तकं देयम्, अयं हि विशेषविधिः, तेन च शेषाणां ब्राह्मणानां तक्रनिषेधः स्पष्टमेव प्रतीयते । तथा ब्राह्मणा भोजनीयाः कौण्डिन्याय च तक्रं न देयम्, इत्यत्र विशेषनिषेधे शेषाणां ब्राह्मणानां तकं देयम्, इत्यभ्यनुन्ना प्रतीयत एव । तथा चात्रापि अन्यतीर्थिकपरिगृहीतार्हचैत्यवन्दननिषेधलक्षणेन विशेषनिषेधेन शेषाच्चैत्यवन्दनानुन्ना सुप्रतीतैव । किञ्च मूलतो निषिद्धे देशतो निषेधोऽप्ययौक्तिक एव प्राणातिपातादिवत् । अर्हच्चैत्यशब्देन यत्साधुवृक्षनगाद्यर्थान्तरकल्पनं तत्तु शाब्दिकैस्तार्किकैः सहृदयैः श्रोतुमप्यशक्यमित्यपकर्णनीयम् । तत्सूत्रञ्चदम् समणं भगवं महावीर वंदइ नमसह वंदित्ता नमंसित्ता एवं वयासी-नो खनु मे भंते ! कप्पइ अञ्जप्पभिई अनउत्थिए वा अन्नउत्थियदेवयाणि वा अनउत्थियपरिग्गहियाई अरिहंतचेइयाई वा वंदित्तए वा नमसित्तए वा पुचि प्रणालत्तेणं पालवित्तए वा संलवित्तए वा [कल्लाणं मंगलं देवयं चेइयं पज्जुवासित्तए वा] तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउँ वा नन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभियोगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तिकंतारेणं, कप्पइ में समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं पीढफलगसिजासंथारएणं ओसहभेसज्जेण य पडिलामेमाणस्स विहरित्तए तिकट्ट इमं एयारूवं अभिग्गहं अभिगिन्हइ अभिागन्हित्ता पसिणाई पुच्छइ पुच्छित्ता अट्ठाई आदियति २त्ता समणं भगवं महावीरं तिक्खुत्तो वंदह । इति । वृत्तिर्यथा-'नो खलु' इत्यादि, नो खलु मम भदन्त ! भगवन् ! कल्पते-युज्यते अद्य प्रभृति-इतः सम्यक्त्वप्रतिपत्तिदिनादारभ्य निरतिचारसम्यNI क्त्वपरिपालनार्थे तद्यतनामाश्रित्य 'अन्नउस्थिएव' चि जैन यूथायदन्यत् यथं सङ्घान्तरं तीर्थान्तरमित्यर्थः तदस्ति येषां www.jainelibrary.org For Private Personal Use Only Jain Education International
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy