SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ विचार रत्नाकर ॥६ ॥ कहिं गच्छिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति । एवं खलु जंबू ! समणेणं जाव संपत्तेणं पढमस्स वग्गस्स पढमज्झयणस्स अयमद्वे पन्नत्ते । वृत्तिस्तु सुगमत्वादस्य नास्ति । इति श्रीज्ञाताद्वितीयश्रुतस्कन्धप्रथमाध्ययनप्रान्ते १७२ प्रतौ १७० पत्रे ॥७॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृपरसालसालातिशालिशीलश्रीजगद्गुरुभट्टारक-श्रीहीरविजयसूरिशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि श्रीज्ञाताधर्मकथाङ्गविचारनामाषष्ठस्तरङ्गः ॥६॥ काष्ठोपमानि परमतहृदयान्यपि युक्तिसमीरलहरीभिः । सुरभयति य इह तस्मै, जैनागमचन्दनाय नमः ॥१॥ ननु नास्त्येव प्रापता: श्रीउपासकदशाङ्गविचाराभिः । सुरभयति य इह तस्मै, और ननु नास्त्येव प्रतिमावन्दनविधिः यदि स्यात्तदा भगवतः श्रीवीरस्येयन्तः श्रावका अभूवन् तेषु केन प्रतिमा नमस्कृतेति सिद्धान्ते दर्शनीयं इति प्रतिमाद्विषो वदन्ति, तच्च जडजनानां हृदयङ्गमं न विदुषाम् । यत आनन्देन सुश्रावकेन सम्यक्त्वोच्चारसमये अन्यतीर्थिकपरिगृहीतार्हचैत्यवन्दननिषेधनद्वारेणान्याहच्चैत्यवन्दनस्य सुतरां खीकृतत्वात् । ननु निषेधसूत्रेऽर्हच्चैत्यवन्दनं यथा प्रतिपादितं तथा विधिसत्रे कुतो नोक्तम् ? किं च यदि अन्यतीर्थिकपरिगृहीताहच्चैत्यवन्दनं निषिद्धं तर्हि अन्यतीर्थिकापरिगृहीतार्हच्चैत्यवन्दनमनुक्तमपि कथमापतितम् ? इति चेत् ? अरे अदृष्टन्यायमार्ग ! मैवं वादी शृणु तावत् विशेपविधिनिषेधौ हि शेषनिषेधाभ्यनुज्ञाफलौ यथा-ब्राह्मणेभ्यो दधि देयं, तक्रं कौडिन्याय । अत्र कौडिन्यगोत्राय ब्राह्मणाय ॥८॥ Jan Education a l For Private Personel Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy