________________
विचार
रत्नाकरः
॥५३॥
इति ! वृत्तियथा-'जन्नं से बहुजणो अपमाणस्स एवमाइक्खइ' इत्यत्रैकवचनप्रक्रमे 'जे ते एवमाहंसु' इत्यत्र यो बहु- वचननिर्देशः, स व्यक्त्यपेक्षोऽवसेयः। 'अहिगयजीवाजीवे' इत्यत्र यावत्करणात् 'उवलद्धपुनपावे' इत्यादि दश्यम् । 'पडिलाभमाणे'त्ति इदं च 'समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलरोहरणणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणे विहरइ' इत्येवं दृश्यम् । 'चाउग्घंटे'ति घण्टाचतुष्टयोपेतं 'आसरहंति अश्ववहनीयरथं 'जुत्तामेव'त्ति युक्तमेव रथसामग्र्येति गम्यम् । 'सज्झयं' इत्यत्र यावत्करणादिदं दृश्यम्-'सघंटे सपडागं सतोरणवरं सणंदिघोसं सखिखिणीहेमजालपेरंतपरिक्खित्तं' इति सकिङ्किणीकेन-क्षुद्रघण्टिकायुक्तेन हेमजालेन पर्यन्तेषु परिक्षिप्ता यः सः तथा तम् , 'हेमवयचित्ततेणिसकणगनिउत्तदारुयागं' हैमवतानि-हिमवगिरिजातानि चित्राणि-विचित्राणि तैनिशानि-तिनिशाभिधानवृक्षसंबन्धीनि, स हि दृढो भवतीति तद्ग्रहणं, कनकनियुक्तानि-नियुक्तकनकानि दारूणि यत्र स | तथा तम् , 'सुसंविद्धचक्कमंडलधुरागं' सुष्टु संविद्धे चक्रे यत्र, मंडला च-वृत्ता च धृर्यत्र स तथा तम् , 'कालायससुकयनेमिजंतकम्मं' कालायसेन-लोहविशेषेण सुष्टु कृतं नेमेः-चक्रमण्डलमालाया यन्त्रकर्मबन्धनक्रिया यत्र स तथा तम् । 'आइमवरतुरयसुसंपउतं' जात्यप्रधानाश्वैः सुष्टु संप्रयुक्तमित्यर्थः, 'कुसलनरच्छेयसारहिसुसंपग्गहियं' कुशलनररूपो यछेकसारथिः-दक्षप्राजिता तेन सुष्ठ संप्रगृहीतो यः स तथा तम् , 'सरसयबत्तीसतोणपरिमंडियं' शराणां शतं प्रत्येक येषु ते शरशताः तैात्रिंशता तूणैः-शरधिभिः परिमण्डितो यः स तथा तम्, 'सकंकडवडेंसर्ग' सहकण्टकैः-सकवचैरवतंसैश्च-शेखरकैः शिरस्त्राणभूतैः यः स तथा तम् , 'सचावसरपहरणावरणभारियजोहजुद्धसङ्गं सहचापशरैयानि प्रहराणानि-
॥५३॥
Join Education
for Bonal
For Private
Personel Use Only
Miwww.jainelibrary.org