SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ विजा मंताय भावंम ॥ २॥ "त्ति । सोऽस्ति येषां तेन वा चरन्ति ये ते अभियोगिकाः आभियोगिका वा ते च व्यवहारतश्चरणवन्त एव मन्त्रादिप्रयोक्तारः । यदाह - “ कोउय भूईकम्मे, परिणापसिणे निमित्तमाजीवी । इड्डिरससायगुरुओ, अभियोगं भावणं कुणइ || १॥ " त्ति । कौतुकं - सौभाग्याद्यर्थं त्रपनकं भूतिकर्म - ज्वरितादिभूतिदानम्, प्रश्नाप्रश्नं- स्वमविद्यादि, 'सलिंगीणं ' ति रजोहरणादिसाधुलिङ्गवतां, किंविधानाम् ? इत्याह- ' दंसणवावन्नगाणं ' ति दर्शनं - सम्यक्त्वं व्यापमं - भ्रष्टं येषां ते तथा तेषां निहृवानामित्यर्थः । ' एएसि णं देवलोएस उववजमाणाणं' ति अनेन देवत्वादन्यत्रापि केचिदुत्पद्यन्ते इति प्रतिपादितम् । ' विराहियसंजमाणं जहनेणं भवणवाससु उक्कोसेणं सोहम्मे कप्पे ' त्ति इह कश्चिदाह विराधितसंयमानामुत्कर्षेण सौधर्मे कल्पे इति यदुक्तं तत्कथं घटते द्रौपद्याः सुकुमालिकाभवे विराधितसंयमाया अपि ईशाने उत्पादश्रवणात् ? इत्यत्रोच्यते तस्याः संयमविराधनोत्तरगुणविषया बकुशत्वमात्रकारिणी न मूलगुणविराधनेति । सौधर्मोत्पादश्च विशिष्टतरसंयमविराधनायां स्यात् । यदि पुनविराधनामात्रमपि सौधर्मोत्पत्तिकारकं स्यात्तदा चकुशादीनामुत्तरगुणप्रति सेवावतां कथमच्युतादिपूत्पत्तिः स्यात्, कथञ्चिद्विराधकत्वात्तेषामिति । ' असणं जहम्मेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु'त्ति इह यद्यपि ' चमरबलिसारमहिय 'मित्यादिवचनादसुरादयो महर्द्धिका 'पलिओममुकोसं वंतारियाणं ' ति वचनात् व्यन्तरा अल्पार्द्धकाः तथाप्यत एव वचनादवसीयते सन्ति व्यन्तरेभ्यः सकाशादल्पर्द्धयो भवनपतयः केचन । इति भगवतीप्रथमशतक द्वितीयोदेशके ८०६ प्रतौ ४६ । ४७ पत्रे । ३ । केचिच्च परेषां भिक्षुकादीनां दानं निषेधयन्ति, अपरे च चतुर्दशीं विहाय पूर्णिमावास्ययोरेव पौषधं प्ररुपयन्ति, ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy