________________
किव्विसियाणं लतगे कप्पे १०, तिरिच्छियाणं सहस्सारे कप्पे ११, आजीवियाणं अच्चुए कप्पे १२, आभिओगाणं IN अच्चुए कप्पे १३, संलिगीणं दंसणवावनगाणं उवरिमगेवेजएसु १४ ।' वृत्तिर्यथा कर्मलेशादन्तक्रियाया अभावे केचिज्जीवा
देवेषुत्पद्यन्ते, अतस्तद्विशेषाभिधानायाह-'अह णं भंते !' इत्यादि व्यक्तं, नवरं अथेति परिप्रश्नार्थः । ' असंजयभवियदव्वदेवाणं'ति इह प्रज्ञापनाटीका लिख्यते असंख्याताः-चरणपरिणामशून्या भव्या-देवत्वयोग्या अत एव द्रव्यदेवाः, समासश्चैवम्-असंयताश्च ते भव्यद्रव्यदेवाश्चेति असंयतभव्यद्रव्यदेवाः। तत्रैते असंयतसम्यग्दृष्टयः किलेत्येके, यतः किलोक्तम्-"अणुवयमहव्वएहि य, बालतवोकामनिजराए य । देवाउयं निबंधइ, सम्मद्दिट्ठी य जो जीवो ॥ १॥" एतच्चायुक्तम् । यतोऽमीषामुत्कृष्टत उपरिमौययकेषूपपात उक्तः । सम्यक्दृष्टीनां तु देशविरतानामपि न तत्रासौ विद्यते देशविरतश्रावकाणामच्युतादूर्द्धम
गमनात् । नाप्येते निहवाः, तेषामिहैव भेदेनाभिधानात, तस्मान्मिथ्यादृष्टय एवाभव्या भव्या वाअसंयतभव्यद्रव्यदेवाः श्रमNणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते । ते ह्यखिलकेवलक्रियाप्रभावत एवोपरिमोवेयकेषूत्प
द्यन्ते, इति । असंयताश्च ते सत्यप्यनुष्टाने चारित्रपरिणामशून्यत्वात् । ननु ते कथमभव्या भव्या वा श्रमणगुणधारिणो भवन्ति ? इत्यत्रोच्यते, तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपि चक्रवर्तिप्रभृत्यनेकभूपतिप्रवरपूजासत्कारसन्मानदानान्साधून समवलोक्य तदर्थं प्रव्रज्याक्रियाकलापानुष्ठानं प्रति श्रद्धा जायते, ततश्च यथोक्तक्रियाकारिण इति । 'अविराहियसंजमाणं'ति प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामानां संज्वलनकषायसामर्थ्यात्प्रमत्तगुणस्थानकसामर्थ्याद्वा स्वल्प| मायादिदोषसंभवेऽप्यनाचरितचरणोपघातानामित्यर्थः । 'विराहियसंजमायं 'ति उक्तविपरीतानां, अविराहियसंजमासंज
Jain Education
a
l
For Private & Personal Use Only
.www.jainelibrary.org