SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 40 Anto:00: 0kgoo40000 भोल्लासिमिर्गे हैनगरीतिप्रकाशिनी ॥ १९ ॥ तस्यामासीजितारातिर्जितारिः पृथिवीपतिः । मानमुक्तं सदा यस्य, मानसं परमोदकम् । ॥ २० ॥ दत्तदानः सुपात्रेषु, मुदत्तः श्रावकाग्रणीः। सच्चरित्रपवित्रात्मा, तथा तबाभवद् गृही ।। २१ ॥ सर्वे सम्यग्दृशामग्रेसरं पौरा विवेकिनम् । यं सर्वत्र पुरोधाय, कुर्वते पुण्यसंततिम् ॥ २२ ॥ अभूतां तनयौ तस्य, वेश्माधारधुरन्धरौ। आद्यो धनोऽनवद्यात्मा, द्वितीयो धरणः पुनः ॥ २३ ॥ धनोऽभून्यमूर्द्धन्यः, सद्गुणैर्विश्रुतः पुरे । धरणः शरणं सर्वपाप्मनां क्रूरदृग्मनाः ।। २४ ॥ कर्पूरपूरवत्कीर्तिर्धनस्याजनि सर्वतः । धरणस्यापकीर्तिस्तु, तत्राङ्गार इबावभौ ॥ २५ ॥ असहिष्णुरभद्रात्मा, धरणः करुणोज्झितः । धर्माधारं धनं हन्तुं, ततश्छिद्राणि वीक्षते ॥ २६ ॥ अपश्यस्तानि पापात्मा, धरणो धनमभ्यधात् । आवाभ्यां गम्यते बन्धो !, धनमर्जयितुं क्वचित् ॥ २७ ॥ आवयोर्जायते तत्र, भाग्याभाग्यपरीक्षणम् । तेजो विजृम्भते पुंसो, न हि देशान्तरं विना ।। २८ ॥ अजानस्तस्य कौटिल्यं, ज्यायानृजुतया ततः। अनुजेन समं देशान्तरं प्रति स जग्मिवान् ।। २९॥। धरणोऽथ धनं स्माह, गच्छंस्तुच्छमनाः पथि । संसारेऽत्र सुखं भातर्धर्मात्स्यादथवाऽवतः ॥ ३० ॥ धर्मेणैव सुखं वत्स !, जायते नात्र संशयः । सर्पिर्दध्न इवावन्यामित्युवाच धनोऽपि तम् ॥ ३१ ॥ यतः-पुण्यमेकमनेकानां, सौख्यानां कारणं परम् । यथा संसारकार्येषु, लक्ष्मीः सर्वार्थसाधनम् ।। ३२ ॥ अहो धर्मस्य माहात्म्यं, को वा वर्णयितुं क्षमः १ । स्युर्यदाभासमात्रेण, प्राणिनो १ हनिकलभानामुत्साहदातृभिः, सुखेन वामात् २ पर्वतरीति० ३ प्रमाणेन मानेन च रहितम् ४ अन्येषामानन्ददायि पक्षे श्रेष्ठनलवत् | प्रसिद्धः ॥४६॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy