SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ विंशति स्थान ॥४७॥ विश्वपूजिताः ॥ ३३ ॥ धरणोऽप्यवद्भातमिथ्या किं भाषसे ? यतः। अधर्मादेव दृश्यन्ते, शर्माणि प्राणिनां भुवि ॥ ३४ ॥ इत्थं विवदमानाभ्यामुक्तियुक्तिप्रयुक्तिभिः । नेत्रार्पणपणस्ताम्यां, चक्रे रभसवृत्तितः ॥ ३५ ॥ क्वापि ग्रामे ततस्ताभ्यां, पृष्टा दुशाशया नराः । भवेद्धर्मादधर्मादा, देहिनां शर्म भो ! जनाः ? ॥ ३६ ॥ तैरुचे नास्तिकप्रायः, पापादेव सुखं भवेत् । नास्ति यन्मूर्खलोकानां, पुण्यपापफलज्ञता ॥ ३७ ॥ ततः क्रूरमना नेत्रे, धनस्य धरणोऽग्रहीत् । तत्रैव तं तथाऽवस्थं, मुक्त्वाऽगाच्च स्ववेश्मनि ॥ ३८ ॥ तेन पित्रोः पुरः पोचे, धनो व्यानेण भक्षितः । सुतोऽन्तःकाननं तात !, ततोऽहं गृहमागमम् ॥ ३९ ॥ तद्वा श्रवणात् शोको, विदधे जनकादिभिः । धनाभावो हि शोकाय, कस्य न स्यात् सचेतसः ? ॥ ४० ॥ इतश्चाद्भुतपुण्यात्मा, वनदेवतया धनः । दिव्याञ्जनप्रयोगेण, निर्ममे निर्मलेक्षणः ॥ ४१ ॥ तदजनमुपादाय, दत्तं देवतया तया। सुभद्रपुरमायासीत्, सुदत्तश्रेष्ठिसूस्ततः ॥ ४२ ॥ अरविन्दनरेन्द्रस्य, पुत्री तत्र प्रभावती । कलाकलापनिष्णाता, सौभाग्यरसवाहिनी ॥ ४३ ॥ यौवनेऽप्यभवत्प्राच्यपापकर्मानुभावतः । मृगनेत्राऽपि हुनेत्रा, कपालोत्कटरोगतः ॥ ४४ ॥ यः करोति नरेन्द्रस्य, सुतां सज्जेक्षणामिमाम् । अर्द्धराज्यश्रियं तस्मै, दत्ते राजाऽनया समम् ॥ ४५ ॥ आकर्योद्घोषणामेवं, धनो धन्यजनाग्रणीः । दिव्याञ्जनाञ्जनेनाशु, तामुज्ज्वलदृशं व्यधात् ॥ ४६ ॥ प्रीतः पृथ्वीपतिस्तस्मै, समेती सुतया तया । अर्द्धराज्यश्रियं प्रादात्, सन्तः सत्यगिरो यतः ॥ ४७ ॥ धनस्य राज्यलाभादिस्वरूपममृतस्रवम् । निशम्य అన్నం వేరం తను అన్నం ఉతం వస్తవం పం పం పం १ धनाभिधानः पुत्रः पक्षे द्रयं २ युनाम् Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy