SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ स्वजनाः सर्वे, जहपुर्धरणं विना ॥ ४८ ॥ जनकादेशतस्तत्र, धरणो धनसन्निधौ । दुष्टाशयतया यातो, मिलनव्याजतोऽन्यदा ॥ ४९ ॥ धनेन भूधनेनापि, सुकृतोन्नतचेतसा। सौदर्यस्नेहतोऽतोषि, धरणः स्वश्रियोऽर्पणात् ॥ ५० ॥ धनस्याद्भुतमैश्वर्य, परं प्रेक्ष्य स मत्सरी । राजानमन्यदाऽवादीदरविन्दं रहस्यदः ॥ ५१ ॥ श्वपाकः स्वसुतादानावनो गौरवितस्त्वया । कुरुते नगरीलोक, लोकनाथ ! मलीमसम् ॥ ५२ ॥ तद्गिरा कुपितस्वान्तो, राजा मारयितुं धनम् । अचिन्तयत्परं दैवात्स एवामारि तज्जनैः ॥ ५३ ॥ यतः-पड्भिर्मासैस्तथा पक्षैः, षड्भिरेव दिनैः किल । अत्युग्रपुण्यपापानां, फलमत्रैव जायते ॥ ५४॥ सप्तमं नरकं प्रापद्, धरणः पापकर्मणा । निष्कलङ्को धनश्वासीत्, सत्कृती नभसो गिरा ॥ ५५ ॥ तत्स्वरूपं परिज्ञाय, संवेगामृतसागरः । आकार्य पितरौ तत्र, पवित्रौ पुण्यसंपदा ॥ ५६ ॥ सुतं मलयकेतुं स्वं, निवेश्य पितुरन्तिके । भुवनप्रभसूरीणां, पावें दीक्षामशिश्रियत् ॥ ५७॥ युग्मम् । अधीत्यैकादशाङ्गानि, सहोपाङ्गैरजायत । भावसाधुः प्रसन्नात्मा, निस्तरङ्गपयोधिवत् ॥५८ ॥ भावसाघुलक्षणं यथा-निर्वाणसाधकान् योगान्, यस्मात्साधयतेऽनिशम् । समश्च सर्वभूतेषु, तस्मात्साघुरुदाहृतः ॥ ५९॥ क्षात्यादिगुणसंपन्नो, मैञ्यादिगुणभूषितः। अप्रमादी सदाचारे, भावसाधुस्त्वसौ स्मृतः ॥ ६० ॥ सूत्रार्थपौरुषीयुक्त्या, वजन ग्रामपुरादिषु । धनर्षिरन्यदाऽश्रीषीन्मुखाम्भोजा गुरोरिति ॥६१ ॥ विनयेन गुरोस्तोषः, सम्यग्ज्ञानं ततो भवेत् । सदर्शनमतः सम्यकचारित्रं परमं ततः ॥ ६१ ॥ तस्माच्च संवरस्तस्मात्तपप्तस्माच्च निर्जरा । ततः कर्मक्षयस्तस्मात्केवलज्ञानमु పండు రంగారాం తం ॥४॥ १ राज्ञा २ भ्रातृ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy