________________
विंशति॥४८॥
ज्ज्वलम् ॥ ६२ ॥ मुक्तिश्रीसंगमस्तस्मात्तस्मात्सुखमनन्तकम् । सर्वेषां श्रेयसामेवं, विनयो मूलकारणम् ॥ १३॥ प्रतिरूपा-स्थान. शातनामिः, षट्षष्टिधा भवेदसौ । तत्राद्यश्चतुर्दशधा, कायवाकचित्तभेदतः ॥ ६४ ।। अभ्युत्थानं तदालोकेऽभियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः, स्वयमासनढौकनम् ॥ ६५॥ आसनाभिग्रहो भत्तया, बन्दना पर्युपासनम् । तद्यानेऽनुगमति, विनयः कायिकोऽष्टधा ।। ६६॥ चतुर्धा वाचिकः पथ्यमृद्रल्पालोच्यभाषणैः । द्विधाऽऽन्तरस्तु सदसन्मनोवृत्तिनिवृत्तितः ॥ ६७ ।। सङ्क: कुलं गणो धर्मः, पञ्चापि परमेष्ठिनः । ज्ञानं क्रिया च स्थविरा, ज्ञानी चेति पृथक् पृथम् ।। ६८ ॥ आशातनापरित्यागो, भक्तिः सन्मानसंस्तुती । चतुर्भिर्गुणितेष्वेषु, त्रयोदशपदेष्विति ॥ ६९ ॥ द्वापञ्चाशद्विधोऽन्यस्तत्, षट्पटियमीलने । तं कुर्वनिरतीचार, मुनिराहन्त्यमश्नुते ॥ ७० ॥ श्रुत्वेति स्वगुरोर्वाच, सर्वाङ्गीणां शुभायतिः। तदा धनमुनिर्धन्यान्, स जग्राहेत्यमिग्रहान् ॥ ७१ ॥ मनोवाक्तनुमिः कार्यो, विनयः परमेष्टिषु । विशेषाद् गुरुपादेषु, सर्वश्रेयोविधायिषु ॥ ७२ ॥ ततः प्रशंसयामास, सम्यग्विनयतत्परम् । तपोधनं धनं मूरिः, सुधासोदरया गिरा ॥ ७३ ।। बास्तिपोभिः क्लिश्यन्ते, युगकोटिं जडाशयः । मुक्तेरौपयिक वैनयिकं त्वेकं न जानते ॥ ७४ ॥ गुणानां विनयो राजा, गीयते जिनशासने। यं विना निष्फलाः सर्वे, गुणाः शमदमादयः ॥ ७५ ॥ पक्षोभयविशुद्धात्मा, विनयं कुरुते यतः । चक्रवर्ती नमत्युच्चैर्न पुनः प्राकृतो यतिः ॥ ७६ ।। विधिना विनयं कुर्वन्नहदादिषु संयमी । भुजानोऽप्युपवासस्य, प्रत्यहं लभते फलम् ।। ७७॥ इति, त्रिधा शुद्धं ततस्तन्वन् , विनय विकसन्मनाः । परमेष्ठ्यादिषु सद्बोधिबीजाधायिपदेष्वसौ ॥ ७० ॥ गुरुणा सह साकेतपुरोधानविभूषणम् । आयासीद्वन्दितुं
१ अर्हद्वादिषु
Jain Education International
For Private Personel Use Only
www.jainelibrary.org