________________
देवान्, चैत्ये श्रीऋषभप्रभोः ।। ७९ ।। मुद्रानिर्मितपाणिपद्मवटनां शीधाञ्जलीनां विधिं सूत्रार्थोभयसंपदामधिमनो - नित्योपयोगात्मताम् । नेत्रन्यासनिजाङ्घ्रिपङ्कजगति प्रासादभागस्थितिं यः सम्यक्कुरुते स एव सुकृती चैत्ये विनीतः स्मृतः ॥ ८० ॥ |इत्यादि चैत्यविनयं, विधिवत्कुर्वतो मुनेः । नागेन्द्रो धरणस्तत्र, जिनं वन्दितुमागमत् ॥ ८१ ॥ मनोनिश्चलतां तस्य, ज्ञातुं विनयकर्मसु । नानोपसर्गनिर्माणात्तदा विक्षोभमातनोत् ॥ ८२ ॥ नागेन्द्र निर्मितैर्नागै वैष्टितोऽसौ समन्ततः । दष्टो दुश्च नो | चैत्यविनयाद्वयचलन्मनाग् ॥ ८३ ॥ विनये मेरुवद्वीक्ष्य, निश्चला मुनिं ततः । प्रत्यक्षीभूय भोगीन्द्रः, प्रणम्य गुरुमत्रवीत् ॥ ८४ ॥ विनयं कुर्वताऽनेन, विशुद्धं श्रीजिनादिषु । किमासादि फलं ? स्माह, गुरुस्तीर्थकृतः पदम् ॥ ८५ ॥ मुनिमतल्लिकां नत्वा, ततस्तं त्रिः परीय च । स्वधानि जग्मिवान् वेगात्तद्गुणै रञ्जिताशयः । ८६ आराध्य निरतीचारं, संयमं धनसंयमी । क्रमेण त्रिदशो जज्ञे, सहस्रारे स्फुरद्युतिः ॥ ८७ ॥ ततश्च्युतो विदेहेषु, विनयाराधनात्पुनः । धननामा मुनिर्भावी, जिनेन्द्रो जगदीश्वरः ॥ ८८ ॥ एवं धनर्षिचरितं दुरितापहारि, श्रुत्वा सृजन्तु विनयं गुणवत्सु सम्यग् । येन त्रिलोकजनवाञ्छितपुण्यपुण्या, तीर्थङ्करस्य पदवी न दवीयसी स्यात् ॥ ८९ ॥
Jain Education International
॥ इति श्रीदशमस्थानके धनमुनीश्वरकथानकं समाप्तम् ॥
अथैकादशस्थानकाधिकारः – तत्रोभयसन्ध्यं सायायिकादीनि षडावश्यकानि सूत्रार्थसंपत्सावधानतया विधिवद्विधेयानि, १ मुनिवर्यम्
For Private & Personal Use Only
02/2009
118711
www.jainelibrary.org