SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ स्थान विंशति- मायामसौ देवः, साक्षादभूय प्रमोदवान् । पुरो नाट्यविधिं दिव्यं, विधाय बहुभङ्गीमिः ॥३०॥ हरिविक्रमराजा, सम्यक्त्वोज्ज्वलचे तसम् । प्रणम्य परया भक्त्या, निर्ममे स्वस्तुतेः पदम् ॥ ३१ ॥ धन्यस्त्वमेव राजर्षे !, श्लाघ्योऽसि मरुतामपि । यस्यातिशायिनी जैनधर्मे निश्चलतेदशी ॥ ३२ ॥ अन्यतीर्थचमत्कारस्फुरद्वैभवदर्शनात् । जायते मूढदृष्टित्वं, प्रायः पूर्वविदामपि ॥ ३३ ॥ न परं भवतस्तत्रभवतो भोगतृष्णया । ममोक्तिमेरितस्यापि, दृग्मोहो न मनागभूत् ॥ ३४ ॥ राजर्षिमिति संस्तुत्य, नाकी प्राप निजं पदम् । सोऽपि सम्यक्त्वपूतात्मा, तीर्थकृत्पदमर्जयत् ॥ ३५॥ चारित्रं निरतीचारमाराध्य मुनिसत्तमः । द्वात्रिंशत्सागरायुष्को, देवोऽभूद्विजये क्रमात् ॥ ३६ ॥ विमानाद्विजयाच्च्युत्वा, महर्षिहरिविक्रमः । विदेहे पूर्व दिग्भागे, भविता जिनपुङ्गवः ॥ ३७॥ सम्यक्त्वकाञ्चनविशुद्धिकषोपलस्य, श्रुत्वा कथानकमिदं हरिविक्रमस्य । सदर्शने निजमनो दृढयन्तु सम्यग, येन स्वयंवरतया जिनसंपदेति ॥ ३८ ॥ इति नवमस्थानके श्रीहरिविक्रमनृपतिकथानकम् ॥ अथ दशमस्थानके विवेकिना अहंदादिषु त्रयोदशपदेषु सर्वोपधाविशुद्धः सर्वश्रेयोमूलं विनयो विधेयः, विनीयते-अपनीयतेऽष्ट| प्रकारं क्लिष्टकर्मानेनेति विनयः, सच सामान्यतः पञ्चधा, तद्यथा- * लोगोवयारविणओ, अत्थनिमित्तं च कामहेउं च। भयविणय देवानाम *लोकोपचारविनयः अर्थनिमित्तं च कामहेतुश्च । भवविनयो मोक्षविनयो विनयः खलु पञ्चधा भणितः । १ । अभ्युत्थानमञ्जलिरामनदानं चातिथिपुजा च । लोकोपचारविनयः देवतापूजा न विभवेन ।२। अभ्यासवृत्तिभन्दोऽनुवर्तना देशकालदानं च । अभ्युस्थानमञ्जाल Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy