________________
120002162-00100500049000000000
चङ्गसंवेगाधरिविक्रमभूपतिः ॥ २ ॥ युग्मम् इत्यपि पाठान्तरं) अध्यष्ट द्वादशाकानि, राजर्षिबीजबुद्धिमान् । ज्ञानपूर्वा क्रिया यस्माद्भवेत्सम्यक् शिवावहा ॥ १५॥ स्वगुरोर्देशनामेवमीषीदन्यदा मुनिः । मतेऽत्र विंशतिस्थानतपस्तुल्यं तपो न हि ॥१६॥ विधिनाऽऽराधितेनात्र, तपसाऽनेन सदृशः । अमुत्र त्रिजगह लभन्ते पदमद्भुतम् ॥ १७॥ तत्रापि नवमे स्थाने, निदानं सर्वसंपदाम् । सद्दर्शनं विधा शुद्धं, पालनीयं प्रयत्नतः ॥ १८ ॥ श्रुत्वेति नवमं स्थानं, कुर्वन् सर्वज्ञभक्तिभृत् । आचारैरष्टभिः शुद्धैः, सदा निःशङ्कितादिमिः ॥ १९॥ हरिविक्रमराजर्षिः, सर्वत्रौचित्यकृत्यवित् । निष्पकम्पमना जज्ञे, सम्यक्त्वे मेरुशृङ्गवत् ॥ २० ॥ अन्यदा श्रीपुरे प्राप्तं, राजर्षि तं रजोऽतिगम् । अमरो भरतक्षेत्राधिष्ठाताऽनाहतः स्वयम् ॥ २१ ॥ सविस्मयमना मान्यं, सम्यक्तवस्थिरतागुणैः । ससंभ्रमं समुत्थाय, नमश्चके पुनः पुनः ॥ २२ ॥ युग्मं । तद्गुणाश्रद्दधानेन, देवो विश्वावसुस्ततः । छद्मना तत्र सार्थेशरूपेणागत्य ऋद्धिमान् ॥ २३ ॥ सुधादवमुचा वाचा, वाचंयममुवाच तम् । मुक्त्वा क्लेशकरी दीक्षामाहतीं नीरसामिमाम् ॥२४॥ कन्यामेतां गुणोपेतां, हेमकोटिसमन्विताम् । पाणौकृत्य मदादेशाद्वेश्माश्रमनिवासमृत् ॥२५॥ मुखश्व भोगाननङ्गातितापनिर्वापवाःप्रपाः। देशाङ्गभोगसामग्री, यतोऽसौ सुकृताद् भवेत् ॥२६॥ त्रिभिर्विशेषकम् । विरक्तो भवभोगेभ्यः, केनचिद्धेतुना यदि । अर्हन्मार्गमिमं मुक्त्वा, मूरिकाल्पसौख्यदम् ॥ २७ ॥ बौद्धधर्म सुखासेव्यं, महत्पुण्यफलपदम् । नानातिशयसंपन्नमङ्गीकुरु मुनीश्वर ! ॥ २८ ॥ युग्मम् । इयादिभोगयोगोक्तिदर्शनान्तरयुक्तिमिः । चाल्यमानोऽपि नाचालीदाहतात्तेन वर्मनः ॥ २९ ॥ त्यक्त्वा
१ पानीयशाला २ धनादिः उत्तगयनोका ३ मार्गात
0000RIENook
Jain Education International
For Private Personel Use Only
www.jainelibrary.org