________________
विंशति
॥४३॥
॥ ६६ ॥ अनन्तशस्ततस्तिर्यग्जातौ दुष्कर्मयोगतः । अज्ञानी तीव्रदुःखात्तों, ग्रामं आममयं पुनः ॥ ६७ ॥ अकामनिर्जरायोगात्, क्षपयित्वाऽथ दुष्कृतम् । श्रेष्ठिनः सिन्धुदत्तस्य, सुतोऽभूद् गुणसुन्दरः ॥ ६८ ॥ तत्र युग्मम् । तस्याभवद् भूम्ना, दीनाङ्गिषु दयालुता । अन्नदानैकनिष्टस्य, धर्मबीजमनुत्तरम् ।। ६९ ।। प्रान्ते भोगपरित्यागात्तपस्यां तापसीमसौ । तपोभिर्दम्भनिर्मुक्तैः पालयामास दुःसहाम् ॥ ७० ॥ ततस्तत्पुण्ययोगेन त्वमभूद्भूभुजोऽङ्गजः । अनङ्ग भङ्गसौभाग्यशाली श्रीहरिविक्रमः ॥ ७१ ॥ ऋषित्याशुभेनाथ, भुक्तशेषेण सम्प्रति । यौवनेऽप्यभवदेहे, व्याधयस्तव दारुणाः ॥ ७२ ॥ यतः -- दुःखं ददाति योऽन्यस्य, ध्रुवं दुःखं स विन्दति। तस्मान्न कस्यचिद् दुःखं, दातव्यं दुःखभीरुणा ॥ ७३ ॥ पापदः पापमाप्नोति, दाता लक्षगुणं ततः । तस्मान्न दद्यान्मेधावी, पातकं जातु कस्यचित् ॥ ७४ ॥ तवशुश्रूषया सम्यग् मुनीनां वन्दनात्तथा । तच्छेषकर्म निःशेषं तवाऽऽगात् साम्प्रतं क्षयम् ॥ ७५ ॥ कर्माणुवर्गणाः क्षीणा, असंख्याता यदाऽङ्गिनः । तदा सत्तवशुश्रूषा भवेद् भव्यस्य भावतः ॥ ७६ ॥ सम्यक् सत्तच्चशुश्रूषापरिणामवतः सतः । क्षीयन्ते तत्क्षणाद् भूयो, वर्गणाः क्लिष्टकर्मणाम् ॥ ७७ ॥ मिथ्यात्वमोहनीयस्य, क्षयोपशमतस्ततः। उल्ललास रुचिस्तस्य धर्मे श्रीअर्हतोदिते ॥ ७७ ॥ सम्यम्वरत्नमासाद्य, गुरुरत्नाकरात्ततः । प्रमोदं परमं प्राप, नृपसृर्हरिविक्रमः ॥ ७८ ॥ सम्यत्वगुणदोषादिबोधार्थं तस्य केवली । श्रीगुरुर्विदधे धर्मदेशनाममृतप्रपाम् ॥ ७९ ॥ द्विविधस्यापि धर्मस्य मूलं सद्दर्शनं स्मृतम् । तीर्थकृत्पदवीप्राप्तिनिमित्तं सिद्धिसाधनम् ॥ ८० ॥ अनन्तपुद्गलावर्त्तान् भ्रमं ग्रामं भवार्णवे 1 कोटा कोट्यब्धितः शेषां, स्थितिं कृत्वाऽष्टकर्मणाम् ॥ ८१ ॥ अपार्द्धपुद्गलावर्त्तशेषायां तु भवस्थितौ । सम्यत्तत्वं लभते प्राणी, १ पानीयशाला
Jain Education International
For Private & Personal Use Only
स्थान०
www.jainelibrary.org