SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ विंशति॥३८॥ कार्येषु सावधानता, 'अनुपयोगो द्रव्य मिति वचनादुपयोगं विना सर्वानुष्ठानं द्रव्यरूपतां भजति अतः सम्यक्सूत्रार्थोयोगपूर्व सततं सदनुष्टानं विधिवद्वधेयं, यतः - सम्यक् श्रुतोपयोगेन द्रव्यक्षेत्रानुसारतः । यो विधत्ते क्रियाकाण्डताण्डवाडम्बरं सुधीः ॥ ६ ॥ जयतदेवराजर्षिरिवासाद्य जगद्धिताम् । स श्रीतीर्थकृतो लक्ष्मीं, लभते सिद्धिसंपदम् ॥ ७॥ युग्मम् । तथाहि – जयन्तदेवनामाऽऽसीत्, सीमा प्रत्यर्थिजेतृषु, भूपतिर्मथितारांतिः, कौशाम्ब्यां पुरि विश्रुतः ॥ ८ ॥ दरिद्रान् सृजैतो धातुः, कृतार्थान् कुर्वतोऽर्थिनः । परस्परं विवादोऽभूद्, भूभर्त्तर्यस्य सर्वदा ॥ ९ ॥ पुरीपरिसरोद्यानदीर्घिकास्वनुवासरम् । सान्तःपुरः स्फुरत्तेजा, मीनध्वजं इवाङ्गवान् ॥ १० ॥ चन्दनागुरुकर्पूकस्तूरी भरसौरभैः । परितः परिपूतासु, जलकेलिं करोत्यसौ ।। ११ ।। युग्मं ।। अन्यदाऽसौ विशामीशो, जलकेलिं यथारुचि । विनिर्माय निजावासमागच्छन्नन्तराऽध्वनि ।। १२ ।। कुर्वतः कनकाम्भोजे, निविशन् धर्मदेशनाम् । अपश्यद्विश्ववन्यान्रीन्, यशोदेवमुनीश्वरान् ।। १३ ।। युग्मं । उत्तमत्वात्समुत्तीर्य, गर्वादिव करीटिनः । तान्नमस्कृत्य मूजीनिरधोजानुरुपाविशत् ।। १४ ।। दच्चाऽऽशीर्वादमानन्दाद्, गुरुः कल्पतरुः सताम् । सुधासारमुचा वाचा, विदधे धर्मदेशनाम् ।। १५ ।। ज्ञानाद्विदन्ति खलु कृत्यमकृत्यजातं, ज्ञानाच्चरित्रममलं च समाचरन्ति । ज्ञानाञ्च भव्यभविनैः शिवमाप्नुवन्ति ज्ञानं निदानमखिलोत्तमशर्मलक्ष्म्याः ।। १६ ।। अज्ञातस्याज्ञया हा धिग्, देहभाजश्चराचराः । स्वीकृत्य भूमिकास्तास्ता, भवर नटन्त्यमी ॥ १७ ॥ ४ विधेः १ मार्गणान ६ प्रतिदिवमं ७ कामः १ शत्रुजयनशीलेषु २ निर्णाशितशत्रुः ८ नराणां ९ हस्तिनः १० नृपः Jain Education International ३ विधायकस्य ११ भव्यजीवाः For Private & Personal Use Only स्थान० www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy