SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ यतः-क्षपयेन्नारकः कर्म, बहीभिर्वर्षकोटिमिः । यत्तदुच्छ्वासमात्रेण, ज्ञानोद्युक्तस्त्रिगुप्तिमान् ॥१॥ छठ्ठमदसमदुवालसेहिं अबहुसुअस्स जा सोही । इत्तो अ अणेगगुणा, सोही नाणिस्स जिमिअस्स ॥२॥ सम्यग्ज्ञानोपयोगेन, स्वात्मतत्त्वविचारिणाम् । नृणां जीर्यन्ति कर्माणि, दुर्जराण्यपि तत्क्षणात् ॥३॥ इत्यहत्प्रणीतक्रियासु ज्ञानोपयोग एव महनिर्जराकारणं, तद ज्ञानं पुनर्मतिश्रुतावधिमनःपर्यायकेवलज्ञानैः पञ्चप्रकार, तत्र मतिज्ञानमष्टाविंशतिभेदं, तद्यथा-व्यञ्जनावग्रहो मनोनयनवर्जनाच्चतुर्धा, अर्थावग्रहेहापायधारणानां प्रत्येकं पञ्चेन्द्रियमनसां संबधित्वेन षइविधतया चतुर्विंशतिधा, इत्यष्टाविंशतिविधं मतिज्ञानं, तथा सामान्येन चतुर्दशभेदं श्रुतज्ञानं अक्षरसंज्ञिसम्यक्सादिसपर्यवसानगमिकाङ्गप्रविष्टरूपप्रकारैः सप्रतिपक्षैर्भवति, अनुगामिवर्द्धमानप्रतिपातिरूपभे दैः सप्रतिपक्षैः कृत्वा षड्विधमवधिज्ञानं, ऋजुमतिविपुलमतिभेदाभ्यां द्विविधं मनःपर्यायज्ञानं, सकलावरणव्यपगमादेकविधं केवलज्ञानं, अत्र च स्वपरोपकारितया श्रुतोपयोगाधिकारः, यतः-मूकं ज्ञानचतुष्टयं स्वविषयं नैवामिधातुं क्षम, दक्षं चात्मपरप्रकाशनविधौ सम्यकश्रुतं दीपवत् । तद्दाने ग्रहणे श्रुतस्य न पुनः शेषाणि कश्चित्क्षमो, दातुं ज्ञानवराणि निर्मलगुणप्राप्तानपि प्राणभृत् ॥ ४ ॥ तत्र श्रुतं बद्धाबद्धभेदाभ्यां द्विविधं, यतः- बद्धमबद्धं तु सुअं, बद्धं तु दुवालसंगि · निद्दिढे । तबिवरीयमबद्ध, निसीहमनिसीह बद्धं तु ॥५॥ बद्धं तु सूत्रार्थतदुभयप्रकारैः पुनस्त्रिधा, ततस्तेन श्रुतज्ञानेन सर्वत्रोपयोगिना सकल +पष्ठाष्टमदशमद्वादशभक्तैः अबढुश्रुतस्य या शुद्धिः । इतश्चानेकगुणा शुद्धिर्ज्ञानयुक्तस्यजिमितस्य ॥ २ ॥ ४ बद्धमवद्धं तु श्रुतं बद्धं तु द्वादशाङ्गी निर्दिष्टा । तद्विपरीतमबद्धं निशीथमनिशीथं वद्धं तु ॥ ५॥ ॥३७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy