SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ विंशति ॥३७॥ ॥ ९४ ॥ तादृक्पुण्योदयाभावान्नदीपूरो रेयोल्वणः । विधत्तेऽद्यान्तरायं मे, कुर्वेऽहं किमतः परम् ? ॥ ९५ ॥ प्राय: पुण्यात्मनामेव, पारणार्थं तपस्विनाम् । भवेत्सद्वस्तुसामग्री, सफला सिद्धिसाधनम् ॥ ९६ ॥ पत्रिंशता गुरुगुणैर्गुरुः पूर्वविदग्रणीः । अतिथिः प्राप्यते पुण्योदयादेव तपोनिधिः ॥ ९७ ॥ इत्यादिभावनां तस्य, सावोर्भावयतस्ततः । आविर्बभूव हृशत्मा, लवणाधिपतिः सुरः ॥ ९८ ।। तं नमस्कृत्य संहृत्य, सरित्पूरं स्वयंकृतम् । स स्वागः क्षमयामास, पप्रच्छेति गुरुं पुनः ॥ ९९ ॥ भावनां भावयन्नेष, किं फलं प्राप्तवान्मुनिः ? । गुरुराख्यत्सुरपृष्टस्तीर्थकृत्कर्म निर्मलम् ॥ १०० ॥ सर्वेषु धर्मकार्येषु तपोदानार्चनादिषु । यादृग्भावो भवेज्जन्तोः, स तादृक् फलमश्रुते ॥ १ ॥ यतः - ज्ञाने ध्याने दाने, मौने देवार्चने तथा तपसि । यदि निर्मलो न भावस्तदा हृतं भस्मनि समग्रम् ॥ २ ॥ ततस्तं सद्गुरुं हो, नत्वाऽऽगात्स्वपदं सुरः । पारणं कारयामास स पुनर्भतितो गुरून् ॥ ३ ॥ एवं तपस्विवात्सल्यं, निर्मायामायया मुनिः । आराध्य संयमं स्वर्गे, देवोऽभूदच्युते क्रमात् ॥४॥ आगामिनि भवे भावी, वात्सल्येन तपस्विषु । विदेहे तीर्थकृद्वीरभद्रो भद्रङ्करः सताम् ॥ ५ ॥ श्रीतीर्थकृत्पदविधायितपस्विवर्गवात्सपुण्यपदवीमधिगम्य सम्यग् । श्रीवीरभद्रमुनिवद्विधिना विधेयं स्थानं हि सप्तममिदं शिवसौख्यहेतुः ॥ ६ ॥ इति सप्तमस्थानके वीरभद्रश्रेष्ठिकथानकम् ॥ अथाष्टमस्थानके विवेकिना मूरितरक्लिष्टकर्मनिर्जराकारणत्वान्निखिलसद्नुष्ठान संपूर्णफलदायी प्रतिक्षणं ज्ञानोपयोगो विधेयः, १ वेगवान् २ खापराधम् २ सुरसुरोतम Jain Education International For Private & Personal Use Only स्थान० www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy