________________
raat हो । पायमनिकाइयाणं, तवसा उ निकाइयापि ॥ ७८ ॥ विरज्य विषयेभ्यो यैस्तेपे मोक्षफलं तपः । तैरेव फलमङ्गस्य, जगृहे तत्ववेदिभिः ।। ७९ ।। तपः प्रभावतो नैका, लब्धयः स्युर्महात्मनाम् । तेजोलेश्यादयो वोरा, दुस्सहा सदामपि ॥ ८० ॥ त एव मुनयो धन्या, मान्याश्च जगतामपि । दुस्तपं यैस्तपस्तप्तं, निःस्पृहाशयवृत्तिभिः ।। ८१ ।। क्षेत्रकालाविरोधेनाशनपानौषधादिभिः । शुद्वैस्तपस्विनां भक्ति, कुरुते छद्मनोज्झितः ॥ ८२ ॥ राजहंसीव तीर्थेशलक्ष्मीरागामिजन्मनि । तस्य लीलायते पाणिपङ्कजे जगदद्भुता ॥ ८३ ॥ युग्मं ॥ महर्षिवीरभद्रोऽथ श्रुत्वेति स्वगुरोर्वचः । तपस्वियतिवात्सल्याभिग्रहं जगृहे सुधीः ॥ ८४ ॥ ततस्तपस्विनां भक्तपानकादीनि भक्तितः । आनीयानीय सर्वेषां दत्ते चित्तेप्सितानि सः ।। ८५ ।। वैयावृत्यं व्यधात्तेषां वपुर्विश्रामणादिभिः । प्रायोग्यदधिदुग्धादिसारवस्तुन्यौ कयत् ।। ८६ ।। युग्मं ॥ नवकल्पविहारेण, विहरन् गुरुणा समम् । शालिग्रामेऽन्यदा प्रापद्वीरभद्रमहामुनिः ।। ८७ ।। मासोपवासिनस्तत्र, पुण्येनातिथिपुङ्गवाः । सूरयो मुनिचन्द्राख्याः, प्रापुर्निष्पापचेतसः ।। ८८ ।। भक्तितः स्थापयित्वा तान्, पारणार्थं गुरून् मुनिः । स्वयं प्रायोग्यभिक्षार्थ, तदासन्ने पुरे ययौ ॥ ८९ ॥ अतिक्रम्यान्तरालस्थां नदीं संक्रमणाच्वना । गुरुप्रायोग्यभक्तादि, विहृत्योऽऽशु पुरात्ततः ।। ९० ।। स पश्चाद्यावदायाति, गुरुभक्तितरङ्गितः । दुरुत्ताराऽभवत्तावत् पयः पूरेण सा सरित् ॥ ९१ ॥ अशक्तः शीघ्रमायातुं ततोऽसौ जगदे जनैः । मुनेऽयं सरितः पूरचिरस्थायी दुरुत्तरः || ९२ ।। अत्रैव भोजनं तेन, विधेहि विजने क्वचित् । पश्चात्तापं ततस्तन्वन्निति चिन्ताः मुनिर्व्यधात् ।। ९३ ।। युग्मं ॥ ममैव भाग्ययोगेन प्राप्ता मासोपवासिनः । गुरवोऽतिथयो ज्येष्ठाः पारणार्थं स्थितास्तथा १ देवानां० २ शीघ्रम् ० ३ नदी - ४ कुर्वन्
Jain Education International
For Private & Personal Use Only
॥३६॥
www.jainelibrary.org