SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ विंशति- सतां मार्ग, यदल्पमपि तद्वहु ॥ ६२॥ अत्रान्तरे नमस्कृय, वीरभद्रो जिनं जगौ । कियद्भोगफलं स्वामिनद्यापि मम वर्तते : ॥ ६३ ॥ वर्षाणां विंशतिर्भद्र!, दानभोगफलं तव । ततो भोगफले क्षीणे, तपस्या ते भविष्यति ॥ ६४ ॥ इत्याकर्ण्य जिनेन्द्रोक्तं, वीरभद्रो जिनाधिपम् । प्रणम्यागानिजं वेश्म, सागरश्रेष्टिना समं ॥६५॥ स्थित्वा कतिपयान्येष, दिनान्यथ सगी| खम् । वेदमनि श्रेष्टिनस्तस्य, सुखास्वादनवनवैः ॥ ६६ ॥ साधर्मिकेषु वात्सल्यमहद्भक्तिपुरस्सरम् । निर्माय भूभुजादेशात्. सागरानुमतेस्तदा ॥ ६७ ॥ विधापि सकलवोऽसौ, प्राप्तवान् स्वपुरं ततः । निर्ममे जनकेनोचैरुत्सवानां परम्परा ॥ ६८ ॥ आराध्य पितरौ तत्र, तीर्थवद् हार्दभक्तितः । चक्रे फलेग्रहिरतेन, श्रीमता गृहमेधितों ॥ ६९ ॥ विधिवत्पुण्यतीर्थेषु, सम्मेताष्टापदादिषु । वीरभद्रस्य साहायानत्वा नत्वा जिनेश्वरान् ॥ ७० ॥ आराध्य निरतीचारां, देशतो विरति तथा । क्रमतः पितरौ तस्य, देव यमुपेयतुः ॥ ७१ ॥ युग्मं । ततः श्रेष्टिपदं प्राप्य, प्रसादान्मेदिनीभुजः । वीरः क्षीरयशाश्चक्रे, परोपकृतिसंततिम् ॥ ७२ ।। कैलासगिरिसंकाशं, प्रासादं परमर्हितः । अचीकरत्पुरे तत्र, स्वर्णकोटिव्ययादयम् ॥ ७३ ॥ वीरदेववीरदत्तवीरचन्द्रामिधाः क्रमात् । अजायन्त सुतास्तस्य, प्रियाणां तिसृणामपि ॥ ७४ । पुमर्थेषु समर्थेषु, तेषु न्यस्य पदं निजम् । प्रियामिस्तिसृमिः साकं, वीरभद्रो विरक्तवान् ।। ७५ ॥ श्रीसमुद्रगुरोः पार्श्व, सर्वश्रुतमहोदधेः। तपस्यामाददे श्रेष्टिशतैः पञ्चभिरन्वितः ।। ७६ ॥ पालयन् स्थान संयमं सम्यक्, पठन् पूर्वगतं श्रुतम् । तपस्विनामसौ भक्तरश्रौषीत्फलमन्यदा ।। ७७ ॥ * सहेसिं पयडीणं । परिणामवसा १ सस्त्रीकः सर्वरक्षकः कलावस्त्राता इति त्रिधा २ फलपती० ३ गृहस्थता देवभावं. ५ परमश्रावक 1 वैराग्यमाप्तवान् ७ दीक्षाम् * मर्वासां प्रकृतीनां परिणामवशादुपक्रमो भवति । प्रायोऽनिकाचितानां तपसा तु निकाचितानामपि ॥ Jan Education International For Private Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy