SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ॥ ११ ॥ आनीय स्वगृहेऽसौ च, सूनुवत्कृतगौरवम् । स्थापयामास यन्नूनं, सर्वत्र सुकृती सुखी ॥ १२ ॥ स्वकीयं बुद्धदासेति, तब नाम प्रकाशयन् । रत्नप्रभा गुणकीतां, पाणौ चक्रे तदङ्गजाम् ॥ १३ ॥ अथ विद्याधराधीशो, विद्यां गगनगामिनीम् । आभोगिन्या समं तरमै, जामात्रे प्रददौ मुदा ॥ १४ ॥ दशोपवासतपसा, साधयित्वा जिनाग्रतः । विद्याद्वन्द्वं पवित्रात्मा, सोऽभूद्विद्याधरस्ततः ॥ १५ ॥ नत्वा नत्वा जिनेन्द्राणां, मूर्तीस्तवानुवासरम् । स रत्नप्रभया साकं, श्रीसिद्धायतनादिषु ॥ १६ ॥ विद्याचारणसाधूंश्च, सेवं सेवं स्वभक्तितः । सम्यक्त्वं विमलीचके, फलं लेभे च जन्मनः ॥ १७ ॥ आभोगिन्या परिज्ञाय, विद्यया स प्रियायुगम् । सुनतासंयतीपायें स्थितं निर्मलशीलयुग ॥ १८ ॥ अहानि कतिचित्तन, भुञ्जानः पञ्चधा सुखम् । समं तया समुतस्थी, देवो दोगुन्दको यथा ॥ १९ ॥ युग्मं । वीरभद्रोऽन्यदा तत्र, पद्मिनीखण्डपत्तने । सपियः कौतुकेनागात्, प्रियायुग्मदिदृक्षया ॥ २० ॥ सुबतोपाश्रयाऽऽसत्तौ, मुक्त्वा तामपि स प्रियाम् । देहचिन्तामिषात् क्वापि, वामनीभूय जग्मिवान् ॥ २१ ॥ भ्रमन्ती साऽपि सत्पुण्यात्, सुत्रताया उपाश्रयम् । प्राप्ता ताभ्यां समं तस्थौ, तब धर्मोद्यता सुखम् ॥ २२ ॥ सोऽपि सूक्तः सुधासारैर्गी तैर्नृत्यैश्च कौतुकैः । अपीपृणत्पुरे तत्र, पौरलोकं पदे पदे ।। २३ ।। अथ रत्नप्रभानङ्गमुन्दरी प्रियदर्शनाः । तुल्यदुःखतया भेजः, प्रीतिं HI तिस्रोऽपिता मिथः ।। २४ ॥ पठन्ति पुण्यशाखाणि, साध्वीनां सन्निधौ समम् । ताः पूजयन्ति प्रतिमां, त्रिवेल विजगद्गुरोः ॥३४॥ ॥ २५ ॥ भक्त्या मुपावदानेन, मुसाघुपदवन्दनः। पोढाऽऽवदककृत्यैश्च, ता भजन्ति जन:फलम् ॥ २६ ॥ संतुष्टेन क्षितीशेन, तद्विज्ञानकलादिमिः । दवा प्रसादमस्थापि, सोऽपि वामनरूपवान् ॥ २७ ।। विदधे कौतुकी कश्चिदन्यदा नृपपर्षदि । तासां ता वसन्तीनां, सतीनामिति संस्तुतिम् ।। २८ ॥ धर्मध्यानस्थिरस्वान्ताः, साध्वीनां सन्निधौ स्थिताः । पठन्त्यः पुण्यशास्त्राणि, I Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy