________________
विंशति
॥३४॥
मृगी तरक्षणा । इतस्ततो भ्रमन्ती सा पुरीपरिसरे क्षणम् ॥ ९६ ॥ विलोक्य सुव्रतां नाम, गणिनां सुकृतोदयात् । साध्वीरूपपरिज्ञानाद्ववन्दे सा तपस्विनीम् ॥ ९७ ॥ युग्मं । कस्यासि तनया वत्से !, कस्य वा सहचारिणी । गणिन्येत्युदिताऽवादीत्, सा स्वरूपं यथास्थितम् ॥ ९८ ॥ तद्वृत्तान्तं परिज्ञाय सा साध्वीमिरुपाश्रये । आनीय शिक्षिता दक्षा, धर्म श्रीअर्हतोदितम् ॥९९॥ आस्तिकाकृतसान्निघ्या, तत्र सा नृपनन्दिनी । पठन्ती पुण्यशास्त्राणि, प्रापद् धृतिमनुत्तराम् ॥१००॥ शमामृतरसास्वादामुदिता सा दिने दिने । श्रुतज्ञानोपयोगेन, क्लिष्टकर्मक्षयं व्यधात् ॥ १ ॥ यतः - * जं अन्नाणी कम्मं, खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमित्तेणं ॥ २ ॥ तत्रान्यदा तथारूपां तां वीक्ष्य प्रियदर्शना । स्वामिन्येषाऽस्ति का योषेत्यवादीत्संयतीश्वरीम् || ३ || सोवाच तामसौ भद्रेऽभिधयाऽनङ्गसुन्दरी । श्रेष्ठिनो वीरभद्रस्य सिंहलेश्वरनन्दिनी ॥ ४ ॥ सपत्नीति ततो ज्ञात्वा, तद्गिरा प्रियदर्शना । प्रीता प्रीतिसुधासारमुग्वाचा तामतोषयत् ॥ ५ ॥ ततस्तस्याः पितुर्गेहे तिष्ठन्ती सा तदाग्रहात्। सुखेन कुरुते धर्म, चतुर्थान्तरभुक्तिभृत् ॥ ६ ॥ ते उभे संयतीप्रख्यां, विश्रुतिं शीललीलया । प्राप्नुतस्तत्र पौरेषु, गुणसौरभवारिषु ॥ ७ ॥ श्रेष्ठी सागरदत्तोऽपि, सुकृती स्वसुतामिव । सारनेपथ्यभोज्याद्यैः प्रीणयामास तामपि ॥ ८ ॥ इतोन्निर्द्रसद्भद्रोदयेन फलकाप्तितः । तीरं सप्तदिनैर्वार्द्धवीरभद्रोऽपि लब्धवान् ॥ ९ ॥ एलालवङ्गकर्पूरकदलीचारुचारुषु । वेलाकुलेषु स भ्राम्यन्, रतिं नापत्तया विना ॥ १० ॥ अथ रत्नपुरस्वामी, खेचरो रत्नवल्लभः । तत्र क्रीडार्थमायातस्तमालोक्य कलोज्ज्वलम्
Jain Education International
१ श्राविका ० २ उत्कृष्ट ० ३ ० चारुकुली ०
* यदज्ञानी कर्म क्षपयति बटुकाभिर्वर्पकोटीभि: । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयति उच्छवासमात्रेण || ४ ||
For Private & Personal Use Only
स्थान०
www.jainelibrary.org