SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ विंशति ॥३३॥ देशतः पाणौ, चक्रेऽतिप्रियदर्शनः ।। ६७ ॥ सर्वाङ्गसुखदायिन्या, संगतः प्रियया तया । वीरभद्रोऽन्यदा दध्यौ, स्थितः सुधीः ॥ ६८ ॥ कलासु कौशलं मेऽत्र, पुरे स्वजनशालिनि । विफलं सकलं जातं, दुर्भगाभरणं यथा ।। ६९ ।। ततो विदेशमासाद्य, स्वकलोत्कर्षसंपदः । फलं ग्राह्यं मया कल्पलताया इव निर्निर्भम् ॥ ७० ॥ ततो निर्वाद्य सौख्येन, कतिचिदिवसानसौ । प्रियालापैः प्रियां पुण्यां सन्मान्य प्रियदर्शनाम् ॥ ७१ ॥ आत्मपुण्यपरीक्षार्थ, गुटिकायाः प्रयोगतः । कृत्वा रूपान्तरं प्रापद्, द्वीपे सिंहलनामनि ॥ ७२ ॥ युग्मं । शङ्खश्रेष्टिगृहे तत्र, पवित्रे वज्रपाणिवत् । सुखेन पुत्रवत्तस्थौ, कलाकौशलदर्शनात् ।। ७३ ।। तत्र रत्नाकरक्षोणीभर्तुः सौन्दर्यशालिनीम् । अनङ्गसुन्दरीं नाम, सुतां विज्ञानविश्रुताम् ॥ ७४ ॥ श्रुत्वा श्रेष्ठिमुखाम्भोजाद्यौवनोदयमन्थराम् । गुटिकाभावतो योषिद्रूपं निर्माय कौतुकात् ।। ७५ ।। शङ्खस्यात्मजेया साकं द्रष्टुं सहमानसः । राजवेश्म ययौ वीरभद्रोऽन्येद्युर्वराकृतिः ॥ ७६ ॥ त्रिभिर्विशेषकं । वीणायास्तत्करस्थाया, नादं कृत्वा सुधाश्रवम् । तत्क्षणाद्रञ्जयामास वीरभद्रो वशाँकृतिः ।। ७७ ।। राजकन्याऽपि तद्रूपं निरूप्य प्रीतिमत्तरा । सगौरवं निजे पार्श्वे, स्थापयामास तं पुनः ॥ ७८ ॥ तत्र स्थितवता तेन तादृगुरूपवता सुखम् । गीतनृत्यकथोदन्तकलाभिः प्रीणिता सती ॥ ७९ ॥ स्वस्वरूपं परिज्ञाप्य क्रमाद् भूमिभृदाज्ञया । जाग्रत्पुण्यानुभावेन, परिणिन्ये कृतोत्सवम् ॥ ८० ॥ युग्मं । अथालेख्य जिनेन्द्रस्य, प्रतिमाश्चित्रपट्ट । तथा रूपाणि साधूनां दर्श दर्शमनेकशः ॥ ८१ ॥ वसन्नसौ नृपावासे, सम्यग्धर्मनिवेदनात् । क्रमा १ सम्यक्त्वं २ गृहम् ३ असाधारणं ४ प्रसिद्धाम् ५ पुत्र्या ६ मा ७ वनितारूपः ८ अभीक्ष्णं दर्शयित्वा Jain Education International For Private & Personal Use Only स्थान० 20 www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy