________________
स्थान
विशति॥२७॥
अवम् । ततो विवादो विद्वद्भिः, सहाभूद् भूभृतश्चिरम् ॥ ३७॥ तस्मिन्नवसरे तत्र, पुरे पुण्योदयात्सताम् । श्रीपेणमुनिरायासीदसीममहिमोदधिः ॥ ३८ ॥ तमानम्य नृपोऽमाक्षीत्, पाप्मनः शुद्धिकारणम् । मुनिराख्यत् द्विधा शुद्धिर्बाद्याभ्यन्तरभेदतः ॥३९॥ शुद्धिर्जलादिमिर्बाह्या, जडैरेव विधीयते । अशुद्धः पाप्मनाऽन्तश्चेदहिःशुद्धया हि किं भवेत् ? ॥ ४० ॥ यतः-न मृत्तिका नैव जलं, न चाग्निः कर्मशोधनम् । शोधयन्ति बुधाः कर्म, ज्ञानध्यानतपोजलैः ।। ४१ ॥ सत्यं शौचं तपः शौचं, शौचभिन्द्रियनिग्रहः। सर्वभूतदया शौचं, जलशौचं तु पञ्चमम् ।। ४२ ॥ कामरागमदोन्मत्ताः, स्त्रीणां ये वशवर्तिनः । न ते जलेन शुद्धयन्ति, स्नानातीर्थशतेष्वपि ॥ ४३ ॥ अन्तरङ्गा भवेच्छुद्धिमनोमलविशोधनम् । सम्यग्ज्ञानक्रियायोगाद्भावतीर्थावगाहनात् ॥ ४४॥ यतःआलोचनानिन्दनगर्हणामिः, सम्यक्रियाबोधतपोमिरुयैः । तत्पापकर्मसुजतस्त्रिधाऽपि, रमाहुर्विशुद्धिं खलु दुष्कृतानाम ॥ ४५ ॥ सर्वाश्रवनिरोधेन, संयमेन शमी मुनिः । शोधयेत्तत्क्षणादेव, क्लिष्टकर्मावलीमलम् ॥ ४६ ॥ राजन् ! मुहूर्त्तमात्रेण, सर्वसंवररूपया । तपस्यया भवेत्प्राणी, कर्माष्टकमलोज्झितः ।। ४७ ॥ श्रुत्वेति देशनां तस्य, सम्यक् शुद्धिप्रकाशिनीम् । तपस्याऽऽदायि संवेगात्, श्रुतशीलेन मन्त्रिणा ॥ ४८ ॥ गृहीतसंयमं श्रुत्वा, श्रुतशीलं नृपो हृदि । गुरून् प्रति वहन् द्वेष, मन्त्रिणा प्रतिबोधितः ।। ४९ ॥ तवान्यदा सदाचारवानिन्दुरिव शीतलः । समन्तभद्रनामाऽऽगादाचार्यः श्रुतकेवली ॥ ५० ॥ मन्त्रिप्रेरणया राजा, तवागत्य तमानमत् । गुरुणाऽपि तयोरये, निर्ममे धर्मदेशना ॥५१॥ तथाहि-मत्ताश्च कुञ्जरवरेन्द्रशिरोऽधिरूढा, हारार्द्धहारमणिकुण्डलभूषि
-- 00000000000000506100%otoo
१ अपरिमाण
०
२
देशविरतिरूपा, गर्वविररुत्तरत्र स्वीकारवर्णनात् समन्तभद्रागमे मन्त्रिपेरणाकथनाच
Jain Education International
For Private Personel Use Only
www.jainelibrary.org