SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ विशति स्थान ॥२४॥ लोभादेव हठाभिमानविनयात् शृङ्गारकीर्यादितः । दुःखात्कौतुकविस्मयव्यवहृतेर्भावात्कुलाचारतो, वैराग्याच्च भजन्ति धर्मममलं तेषाममेयं फलम् ॥ ५४ ॥ धर्मः श्रुतोऽपि दृष्टोऽपि, कृतोऽपि कारितोऽपि च । अनुमोदितोऽपि राजेन्द्र !, पुनायासप्तमं कुलम् ॥५५॥ निशम्येति क्षमारवामी, शान्तमोहो मुनीश्वरम् । अप्राक्षीकि विभो! प्राच्यभवे पुण्यमहं व्यधाम् ? ।। ५६ ।। गुरुराह महाराज!, त्वमासीनन्दने पुरे । मृत्यः शङ्खमहेभ्यस्य, सन्मतिनन्दनाभिवः ।। ५७ ॥ स्मेराम्बुजत्रजोपेतं, वजन्तं त्वां गृहं प्रति । कन्याभियुगसंख्याभिनिरीक्ष्य जगदे मुदा ॥ ५८ ॥ स्फुरत्सौरभसंभारसाराणि करपङ्कजे । अर्हत्पूजोपयोगीनि, सन्त्यस्य कमलान्यहो ॥५९॥ निशम्येति प्रशान्तात्मा, नन्दनोऽपि जगाद ताः । साधु साधु वचः प्रोनुर्भवत्यो मे शिवावहम ।। ६० ।। यतः-सद्यस्कपुष्पसत्पत्रमनोरमफलादयः । धन्यस्यैवोपयुज्यन्ते, भावतो जिनपूजने ॥ ६१ ॥ ततोऽसौ निर्मलीभूय, तद्वचःप्रेरितोऽधिकम् । अर्हतो निर्ममे पूजां, निममेन स्वचेतसा ।। ६२ ॥ भूमौ न्यस्तं यथा बीजं, सुवायुजलयोगतः । शतशो बईते भावविधिसारा तथाऽर्चना ॥ ६३ ॥ यतः-श्रेयस्तनोति दुरितानि निराकरोति, लक्ष्मी करोति शुभसंचयमातनोति । पूज्यत्वमानयति कर्मरिपनिहन्ति, पूजा जिनस्य रचिता निजभावसारम् ।। ६४॥ चक्रेऽनुमोदनास्तामिः, कन्यामिनिनिभाशयम् । नृपतिस्त्वं ततो जातस्ता एतास्तु तव प्रियाः ॥ ६५॥ धर्मः स्वल्पोऽपि सद्भावानिर्विकल्पेन चेतसा । निर्मितः कुरुते प्रेत्य सर्वाद्भुतसुखश्रियम् ॥ ६६ ॥ एवं गुरुगिरं श्रुत्वा, जातजातिरमृतिपः । स्वसाम्राज्यपदे न्यस्य, पुत्र श्रीपद्मशेखरम् ॥ ६७ ॥ अर्हच्चैयेषु सर्वेषु, विधायाष्टाहिकोत्सवम् । १ विधी २ निर्ममत्वन ३ अमाधारणाध्यवसायपूर्वकम् Jain Education Interational For Private Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy