________________
0 708
Hostoodio.proofa.
oooooooooo
प्रभो । सर्वेऽपि निश्चितम् । करिष्ये तदहं साकममीभिः काष्टभक्षणम् ।। ४० ।। ततो नरेश्वरामात्यमुख्यानापृच्छय सा दतम् । ज्वलद्वह्निप्रवेशेन, स्वात्मानं भस्मसाव्यधात् ।। ४१ ।। सविस्मयमना यावत्तस्थौ राजाऽऽसने स्थितः । तावत् स खेचरः प्राप्तो, याचते दयितां निजाम् ॥ ४२ ।। सखेदं भू भुजाऽऽख्याते, तद्वृत्तान्ते यथास्थिते । आचख्यौ तीवदुःखातः, खेचरोऽपि क्षितीश्वरम् ॥ ४३ ।। त्वादृशा अपि भूपालाः, शरणागतवत्सलाः । गरीयांसः स्खलन्त्येवं, प्रतिज्ञातार्थवर्त्मनः ॥ ४४ ॥ कस्याधारे तदा लोके, लोकेश्वर ! विचारय । चराचरजगगन्धुर्धर्मः शर्मनिधिर्भवेत् ॥ ४५ ॥ इत्याकर्ण्य सकर्णानां, गुरुवर्णाग्रणी शम् । हीणः प्रतिवचो दातुं, तस्य नासीन्मनागलम् ।। ४६ ॥ अथागत्य क्षणाद्वाला, बालादित्योपमप्रभा । कुर्वती विस्मयं तत्र, तद्वामा
मशिश्रियत् ।। ४७ ।। किमेतत्तं नृपः प्राह, सोऽवक तं विद्यया मया। त्वत्प्रबोधाय राजेन्द्र !, माया ह्येवं विनिर्ममे ॥ ४८ ॥ दृष्टन क्षणाद्राजन्निन्द्रजालमिदं यथा । तथा स्त्रीराजऋयादि, सर्व संसारवमनि ।। ४९ ।। यतः-न्यस्तो हन्त यदेन्द्रजालविदुषा मोहेन बन्धो दृशां, दृष्टाः काञ्चनचन्द्रचम्पकनिभाकारास्तदा योषितः । सम्प्रत्यत्र विवेकमन्त्रपयसा ध्वरते यथावस्थितं, तत्कायेषु वसात्वगस्थिपिशितस्तोमादि संलक्ष्यते ॥ ५० ॥ ततः संजातसंवेगरङ्गः सङ्गपराङ्मुखः । हेमकोटिप्रदानेन, तमानन्दपदं व्यधात् ॥५१॥ तत्रोद्याने समायासीदेवप्रभगुरुस्तदा । भूपालोऽपि नमस्कर्तुमाययौ तं प्रमोदवान् ।। ५२ ॥ तस्मै विनयनमाय, सुधामधुरया गिरा। मुनीन्द्रोऽपि व्यधादेवं, सम्यक् श्रीधर्मदेशनाम् ।। ५३ ॥ यथा-लज्जातो भयतो वितर्कविधितो मात्सर्यतः स्नेहतो,
१ गर्वथाऽधाक्षीत् २ ममत्वः
407-08-06-70
BYo0-150005000
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org