SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ रूपं, निर्माय भुवमागतः ॥ ८२ ॥ नानापवाददोषादिकरणैः कदभाषणैः । गुरुभक्तिरतस्वान्तं, निर्दम्भं तं पदे पदे ॥ ८३ ॥ निष्ठुरं तर्जयामास, जातिनिन्दनपूर्वकम् । न भावभङ्गस्तस्यासीन्न चाकुप्यत्स तं प्रति ॥ ८४ ॥ त्रिभिर्विशेषकं । ततः प्रदक्षिणकृत्य, तं मुनिं प्रणिपत्य च । इन्द्रस्वरूपमाख्याय, स नाकी नाकमासदत् ॥ ८५ ।। ततः श्रीगुरुवात्सल्याभिग्रहं परमं मुनिः । प्रतिज्ञाकोटिमारोप्य, निःस्पृहः शुद्धसंयमः ।। ८६ ।। सम्यक् श्रीगुरुराजेभ्यो, नमोऽस्त्वेवं पठन् सुधीः । मासानशनमाराध्य, देवोऽभूच्ते महान् ।। ८७ ।। युग्मम् । ततश्च्युतो विदेहो, राजा श्रीपुरुषोत्तमः । भावी तीर्थकरः श्रीमान्, गुरुभक्तिप्रभावतः ॥ ८८ ॥ इति पुरुषोत्तमनरपतिचरितं श्रुत्वा सहर्षसुखवसतौ । यतितत्र्यं गुरुभक्तौ भवति यतस्तीर्थकर लक्ष्मीः ॥ ८९ ॥ इति चतुर्थस्थानको परि गुरुभक्तिविषये नृपश्री पुरुषोत्तमावनिनायकचरित्रं संपूर्णम् ॥ अथ पञ्चमस्थानके लौकिकलोकोत्तर मेदाभ्यां द्विविधेषु स्थविरेषु सर्वगुणश्रेणिप्राप्तिकारणं भक्तिर्विवेकिना विधेया, तत्राद्याः स्थविरा जनकजनन्यादयः, एतेष्वपि भक्तिर्लोकद्वयसुखावहत्वेन महते गुणोदयाय जायते, यतः - गुणवृद्धेषु वृद्धेषु, यो भक्ति कुरुतेऽनघ । भवद्वयी भवेत्तस्य, सर्वदाऽपि सुखावहा ॥ १ ॥ मातृपित्रादिवृद्धानां, नमस्कारं करोति यः तीर्थयात्राफलं तस्य, तत्कार्योऽसौ दिने दिने ॥ २ ॥ इति, लोकोत्तरवृद्धाश्च पञ्चमहावतभूषिता निस्सङ चित्तवृत्तयो यतय एव परमार्थतः, यतः- तपः श्रुतधृतिध्यानविवेकत्रतसंयमैः । ये वृद्धारतेऽत्र शस्यन्ते, न पुनः पलिताङ्कुरैः || ३ || श्रीभागवतेऽपि - महत्सेवां महतोद्वारं योषितां सङ्गमङ्गम् । महान्तरते समचित्ताः प्रशान्ता, विमन्यवः सुहृदः साधवो ये ॥। ४ ॥ ते Jain Education International For Private & Personal Use Only ॥२१॥ www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy