________________
వ ం ం ఉం - 2017
मितम् । जीवानुकम्पया त्यक्त्वा तद्गतं द्रुतमन्यतः ॥ १३ ॥ भयातुरः करी मुक्त्वा, ततः कान्तां क्वचिद्गतः। आगतायां मृतौ जन्तोः, कः कस्य स्यात् किल प्रियः ? ॥१४॥ वज्रं पततु शीर्षऽस्य, धातुर्यस्तादृशेष्वपि । पुंस्त्वं विधत्ते स्वप्राणकृते मुश्चन्ति ये प्रियाम् ॥ १५ ॥ इति ध्यात्वा स्वयं स्वान्ते, निःस्नेहा सा मृता सती। प्राणिनां कृपया जाता, सुताऽहं पृथिवीभुजः ॥ १६ ॥ ततो नान्यं समीहेऽहं, वरीतुं पुरुषं सखि ! । प्राच्यजन्मप्रियं त्यक्त्वा, समानसुकृतोदयम् ॥ १७ ॥ तत्स्वरूपं नृपः श्रुत्वा, स्मृत्वा च प्राग्भवं निजम् । चिन्तामेवं दधौ स्वान्ते, कट रे धर्मवैभवम् ! ।। १८ ॥ अभूवं पुनरप्येवंविधः श्रीमानहं नृपः । यस्यानुभावतः प्राणित्राणाभिप्रायजन्मतः ॥ १९ ॥ युग्मं ॥ कृपा निर्व्याजमायाता, यस्य जन्तुषु चेद हृदि । बोधिलाभस्तदा भावी, तस्यावश्यं भवान्तरे ॥ २०॥ यतः-महतामपि दानानां, कालेन क्षीयते फलम् । भीताभयप्रदानस्य, क्षय एव न विद्यते ।। २१ ॥ स्वाकारगोपनं कृत्वा, भुवो गोप्ता ततोऽखिलम् । तापस्योः कथयामास, वृत्तान्तं कन्ययोदितम् ।। २२ ॥ सस्नेहं हस्तिना हस्तदण्डेन शीतलाम्बुना। हस्तिनी सिच्यमानाङ्गी, पतिभक्तितरङ्गिताम् ॥ २३ ॥ लिखित्वा तापसी चित्रपट्टिकायां पुरेऽखिले । दर्शयामास सर्वेषामाप्तपुंसा विवेकिना ॥ २४ ॥ युग्मं ॥ क्रमेण नृपतेः पुत्री, तां दृष्ट्वा चित्रपट्टिकाम् । किमस्त्येतन्महाभागेत्यवोचत्तं सविस्मया ॥ २५॥ सोवाच तामसौ पद्मावतीपुर्या अधीश्वरः । सोमान्वयी कृपाम्भोधिपः श्रीपुरुषोत्तमः ।। २६ ।। अयं प्राच्यभवे हस्ती, जातो विन्ध्याचलावनौ । दग्धो दवाग्निना प्राप्य, मृत्युमन्याङ्गिरक्षणात् ॥ २७ ॥ नरेन्द्रपदवी प्राप्तो, जातजातिस्मृतिः पुनः । इदं चित्र विनिर्माय, ज्ञातुं प्राच्यप्रियां वशाम् ।। २८ ॥ समानसुकृतारम्भनिर्दम्भगुणशालिनीम् । पृथिव्यां दर्शयामास, सर्वत्र मम पाणिना ॥२९॥ विभिर्विशेषकं । अथ नेत्रपुटैः पीत्वा, सा तद्रूपसु
అంగం మంచి నరం అని
కూడా ఆ ఆ ఆసరాంపురం
అనురాంను కంగా ఉన్న సం
Jain Education International
For Private Personal Use Only
www.jainelibrary.org