SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ अभूतामर्हतो धर्मे, राजा मन्त्री च निश्चलौ ॥ ९ ॥ अन्यदाऽभ्यर्च्य सर्वज्ञप्रतिमां भक्तिनिर्भरम् । सिंहासनमलङ्कृत्य, विशाशो न्यवीविशत् ॥ १० ॥ नृदेवं तं नमस्कृत्य, श्रेष्टिसामन्तमन्त्रिणः । पर्षदं पूरयामासुः, स्वस्वस्थाननिवासिनः ॥ ११ ॥ तस्मिन्नवसरे तत्र, विद्याविकटविग्रहः । कपाली रुद्रनामाऽऽगात्, कूटकोटिनिकेतनम् ॥ १२ ॥ तमाशीर्वचसाऽऽनन्द्य, योगी नृपमुपाविशत् । राजाऽपि तोषयामास तं श्रेयोवार्त्तया पुनः ॥ १३ ॥ जगौ योगी महाराज !, त्वयि राशि हि राजति । श्रेयांसि कुमुदानी, विजृम्भन्ति निरन्तरम् ॥ १४ ॥ राजाऽऽख्यद्भवतो योगिन् !, निःस्पृहैकशिरोमणेः । आगतिर्निकषा भूपभवत्प्रियोजना ? ॥ १५ ॥ सोऽवम् नरेन्द्र ! षण्मासी, विद्यां साधयतो मम । पूर्वसेवाविधानेन, निर्विघ्नाऽभूदतः परम् ॥ १६ ॥ अपेक्षतेऽचुना तस्याः, सिद्धिरुत्तरसाधकम् । मेदिन्यां धान्यनिष्पत्तिर्यथा सत्पवनोदयम् ॥ १७ ॥ युग्मं ॥ विश्वोपकारधौरेयस्ततो दाक्षिण्यदीक्षितः । भव त्वं नृपते ! विद्यासिद्धिसांनिध्यदायकः ॥ १८ ॥ राजन् ! मिथ्यादृशां सङ्गो, नायतौ गुणहेतवे । सम्यदृशां भवेन्नूनं, सम्यच्वत्रदूषणात् ॥ १९ ॥ मन्त्रिणेत्युच्यमानोऽपि, दाक्षिण्येन नरेश्वरः । वचनं योगिनस्तस्य तत्ववेत्ताऽप्यमन्यत ।। २० ।। ततः कपालिना तेन साकं भूपाकशासनः ! असिपाणिर्निशि प्रापदेकाकी प्रेतकानने ॥ २१ ॥ समग्रहोमसामग्रीं कृत्वा योगी जगौ नृपम् । एकं मृतकमानीहि कुतश्चिद्वीरकुञ्जर ! ॥ २२ ॥ ततस्तद्वचसा राजा, पुरीपरिसरे भ्रमन् । साहसी तरुशाखाग्रालम्बि वीक्ष्य शत्रं क्वचित् ॥ २३ ॥ मण्डलाग्रेण तद्बन्धरज्जुं चिच्छेद तत्क्षणात् । नाथः पपात तद् भूमी, कुतश्चित्कारणादो || २४ ॥ युग्मं ॥ त्रिरेवं भूभुजा छिन्ने, बन्धरज्जौ निजासिना । दिव्यानुभावतो नाथः, पतत्येतत्कथञ्चन ॥ २५ ॥ ततोऽसौ तरुमारुह्योत्तारयेद्यावदात्मना । सत्पुण्योदयतोऽवादीत्तं तावत्कुलदेवता ॥ २६ ॥ भवन्तं जगदाधारं हत्वा दुष्टतमाशयः । ॥ १६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy