SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ स्थान विंशति-वित्रमन्वसिद्धिबीजं श्रीगुरुभक्तिर्विवेकिना शुद्धाशयपूर्व विधेया, यतः- भत्तीइ जिणवराणं, खिज्जती पुचसंचिया कम्मा। आय- रियनमुक्कारेण, विज्जा मंता य सिझंति ॥१॥ सापि द्रव्यभावाभ्यां द्वेधा, तत्र विशुद्धद्रव्यक्षेत्रकालोचितानपानपात्रवस्त्रकम्बलोषधवसतिदानादिना द्रव्यभक्तिः, एषाऽपि भावभक्तिहेतुतया महते सुकृतोदयाय धनसार्थवाहवज्जायते, भावभक्तिस्तु विधिवद्वन्दनप्रदक्षिणाद्वादशावर्त्तवन्दनप्रदानविश्रामणांहिप्रक्षालनत्रयस्त्रिंशदाशातनावर्जनषट्त्रिंशद्गुरुगुणानुभावनागुरूक्तक्रियासम्यकपालनादिना, तथा नमो आयरियाणमिति पदस्य सहस्रशः स्मरणेन, सुवर्णवर्णषोडशाहद्वन्दनपूजनतः, तथा चउदस सया दुवन्ना, सबके गणहरा वंदे इत्यागमोक्तश्रीपुण्डरीकादिगणधरस्मरणादिना वा भवति। यतः---गुणैः पत्रिंशता युक्तस्याचार्यस्य महात्मनः । पञ्चधाऽऽचारपूतस्य, युगार्हागमवेदिनः ।। २ ।। वसत्यौषधवस्त्रादिदानैरञ्जलियोजनैः । वैयावृत्येन चित्तानुवृत्त्या वैनयिकेन च ॥ ३ ॥ प्रत्यक्षवत्परोक्षेऽपि. सद्गुणग्रामकीर्तनैः । समीपात्यजनैराज्ञाऽऽराधनैः कार्यसाधनैः ॥ ४॥ विपत्सु प्राणदानेन, बहुमानोपदर्शनैः । वात्सल्यं सुधिया कार्य, पुरुषोत्तमभूपवत् ॥ ५॥ चतुर्भिः कलापकं । तथाहि-अत्रैव भरतक्षेत्रे, ख्याति तन्वति भारतीम् । | पद्मावतीति पूरासीज्जन्मभूभिरिव श्रियः ।। ६ ॥ तस्यां विश्वम्भराभारधुरन्धरभुजोऽजनि । अच्युतस्थितिमातन्वन् , भूपतिः पुरुषो त्तमः ॥ ७॥ विश्वं गुणमयं तन्वन् , विश्वगैरात्मनो गुणैः । द्रव्याश्रयी गुण इति, ख्याति यो निर्ममे वृथा ॥ ८॥ अन्वयेनापि | नानाऽपि, मुमतिस्तस्य धीसखः । धर्मस्येव विवेकोऽभूत, सद्विचारमनोहरः ॥ ९॥ आजन्म सद्गुरोयोगात्तत्वातचावबोधतः । ४ भक्तया जिनवराणां क्षीयन्ते पूर्वसंचितानि कर्माणि । आचार्यनमस्कारण, विद्या मन्त्राश्च सिध्यन्ति ॥ १ ॥ * चतुर्दश शतानि द्विपल्या शतं च मडिकेन गणधरान बन्द । Moof6000000000 - •oxo0OAROO Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy