SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ । सद्धभक्तोऽस्ति साम्प्रतम् ॥ ६५ ।। पूर्व विमृश्य पानास्यान्यालोक्य च यथोचितम् । दत्ते दानं खलु प्रायो, न तचके भवान् परम् ॥६६ ।। तस्येति स्तुतिमासूश्य, दवा चिन्तामणिं पुनः। स देवस्त्रिदिवं प्रापदिन्द्रोक्तयाख्यानपूर्वकम् ॥ ६७ ॥ चिन्तारत्नं तदासाद्य, जिनदत्तः सुधीस्ततः । सर्वेषां पूरयामास, सदृष्टीनां मनोरथान् ।। ६८ ।। अन्यदा श्रेष्ठिना तेन, पृष्टो रत्नप्रभो गुरुः । स्वां भवस्थितिमाचख्यौ, चतुर्ज्ञानवराग्रणीः ॥ ६९ ॥ आये ग्रैवेयके देवो, भवान् भूत्वा महर्दिकः । विदेहे तीर्थकृलक्ष्मी, प्राप्य मुक्तिं गमिष्यति ॥ ७० ॥ निशम्येति गुरोः पाव, सप्तक्षेत्रेषु संपदः। व्ययेन सफलीकृत्य, जिनदत्तः प्रियान्वितः ॥ ७१ ॥ तपस्यामाददेऽनेकमहेन्यैरभितो वृतः । तादृशानां यतो जन्म, सर्वत्रोदयसंपदे ।। ७२ ॥ स तत्रापि प्रवचने, भक्तिं निर्माय निर्मलाम् । विशुद्धाहारपानाद्यैः, प्राप्तैः कालोचितैः स्वयम् ।। ७३ ।। तीर्थकृत्पदवीं पुण्यां, वशीकृत्य शमी क्रमात् । आये देवोऽनवद्यात्मा, श्रीमान् ग्रैवेयकेऽजनि ॥ ७४ ॥ युग्मं । ततश्चयुतो विदेहेषु, स भावी तीर्थनायकः । नामतो जगदानन्दी, जगदानन्दिरूपभृत् ॥ ७५ ॥ हारप्रभा च गणभृत्पदमासाद्य निर्मलम् । तस्यैव तीर्थनाथस्य, तीर्थे मुक्तिं गमिष्यति ।। ७६ ॥ एवं तृतीयपदभक्तिफलप्रकाशं, वृत्तं निशम्य जिनदत्तमहार्हतस्य । भक्तिं दृढां प्रवचने रचयन्तु हर्षायेनार्हतं पदमदम्भतया भवेद्वः ॥७७॥ इति श्रीविंशतिस्थानकाधिकारे श्रीजिनदत्तपरमाहतस्य तृतीयस्थाने कथानकं संपूर्णम् ॥ अथ चतुर्थस्थानके चतुर्थपुमर्थसाधनैकसाधनभूता सकलश्रेयोराजधानी निखिलसमग्रधर्मानुष्ठानजीवितरूपा निवद्यविद्याप Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy