SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ निका प्रतिमान्तराम ॥ १९ ।। दिनानि कतिचित्तव, स्थित्वाऽसौ स्वजनाग्रहात् । आगच्छन् प्रियया साकं, वसन्तपत्तनं प्रति ॥ २० ॥ प्रपन्नप्रतिमं दृष्ट्वा, विद्याधरमुनीश्वरम् । रथादुत्तीर्य वेगेन, स ननाम प्रियान्वितः ।। २१ ।। युग्मं ।। स मुनवा ॥१४॥ प्रतिमां दत्वा, दयात्मा सुकृताशिषम् । तयोविनीतयोरग्रे, विदधे धर्मदेशनाम् ।। २२ ॥ तद्यथा-धर्मेण धर्मममलं समपार्जयन्ति, धर्मेण च द्रविणमूर्जितमर्जयन्ति । धर्मेण कामसुखमत्र लभन्त एव, धर्मेण मुक्तिमपि यान्ति जनाः कमेण ॥ २३ ॥ श्रीधों दययकथा निजगदे ज्ञानक्रियाभ्यां द्विधा, ज्ञानाद्येत्रिविधश्चतर्विधतया ख्यातो तैः पञ्चधा । पोदाऽऽवश्यकपालनेन नयतः सप्ताष्टधा मातृमिः, सत्तच्चनवधा गुणर्दशविधः क्षान्त्यादि मिर्विश्रुतः ।। २४ । लक्ष्मीकल्पलताया, भोगः कुसुमं फलं पुनर्दानम् । तस्माद्भवति हि जन्तोः, पुण्यं तद्भद्रबीजमिह ।। २५ ।। इत्याकये मनेर्वाणी, स प्रणम्य व्यजिज्ञपत् । केनायं भगवन् ! धर्मः, प्रणीतः परमः सुहृत् ? ॥ २६ ॥ मुनिराह महाभाग !, धर्मोऽयं हितहेतवे । अर्हद्भिः केवलज्ञानशालिभिः समुदीरितः ।। २७॥ श्रुत्वेति श्रेटिनाऽऽख्यायि, धर्मतीर्थकृतां भुवि । पुण्येन केन हे स्वामिन्नईता पदमाप्यते ? ॥ २८ ।। तमाख्यत्स मुनिरतीर्थकृत्पदं लभ्यते नृमिः । अर्हद्भक्त्यादिमिः थेष्टिन् !, विंशत्या हेतुभिः शुभैः ॥ २९ ॥ तृतीयेऽय पदे तेष, सङ्गभक्तिर्गरीयसी । विवेकिना विधीयेत, निश्छद्माशयपूर्वकम् ।। ३० ।। यतःगुणानामिह सर्वेषां, रत्नानामिव रोहणः । श्रीमान् श्रमणसङ्घोऽयमाधारः परमो भुवि ॥ ३१॥ अर्हन्नपि बदत्युच्चैः, केवलज्ञानवानपि । नमस्तीर्थाय विश्वेषां, समक्षं भक्तिपूर्वकम् ।। ३२ ॥ एकतः सर्वकार्याणि, सङ्घवात्सल्यमन्यतः । एकतोऽखिलतीर्थानि, पुण्डरीकादिरन्यतः ।। ३३ ।। कुर्वन् विशालदत्ताख्यः, श्रेष्टी सुश्राद्धगौरवम् । तस्मिन्नेव भवे चिन्तारत्नं लेभेऽद्रिदेवतः ॥ ३४ ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy