________________
द्वीपेऽस्मिन् भरतक्षेत्र, वसन्तपुरपत्तने । आसीदासीकृतारातिररविन्दनरेश्वरः ॥ १॥ तत्रैव जिनदासोऽभूनिवासः सर्वसंप| दाम् । श्रेष्टी सदृष्टितात्मा, राजमान्यः सदग्रणीः ॥२॥ जिनदासी प्रिया तरय, नानाऽपि गुणतोऽप्यभूत् । वित्तव्ययी विवेकी
च, जिनदत्तस्तयोः सुतः ।। ३॥ यौवने प्राप्तवांश्चन्द्रातपविद्याधराधिपात् । परमात्सुहृदो हृयां, स विद्यां बहुरूपिणीम् ॥ ४॥ सोऽन्यदा कारयन्नाट्यमुद्याने सवयोऽन्वितः । चित्रकृद्हस्तविन्यस्तामपश्यच्चित्रपट्टिकाम् ।। ५॥ जिनदत्तस्तमाचस्यौ, वक्षोजोल्लाससालसम् । कस्या रूपमिदं भद्र!, प्रोन्निद्रावयवाद्भुतम् ? ॥ ६॥ सोऽलपत्पुरि चम्पायां, धनेन धनदोपमः । प्रवाहः पुण्यकृत्यानां, सार्थवाहो धनावहः ॥ ७॥ तस्यास्ति भवने वस्तुद्वयमत्यन्तमुत्तमम् । एकमेकावलीहारो, मुक्तानामतिनिर्मलः ॥ ८॥ द्वितीयं भाग्यसौभाग्यधन्या विज्ञानशालिनी। कन्या हारप्रभानाम्नी, तस्या रूपमिदं पुनः ।। ९॥ देवतादत्तविज्ञानवरसिद्धिविलोकनम् । कुर्वता लिखितं वृत्तिकृते दिङ्मावतो मया ॥ १०॥ त्रिमिर्विशेषकं । जिनदत्तो निशम्येति, तद्रूपालोकविस्मितः । लक्षमूल्यं ददौ तस्मै, कटिसूत्रं मणिप्रभम् ।। ११ ॥ ततोऽसौ गृहमागत्य, तद्रूपगतमानसः । योगीव लयलीनात्मा, विस्मृतान्यक्रियोऽभवत् ॥ १२॥ लक्षवित्तव्ययं कुर्वश्चित्रमात्रकृते मुधा । वत्स! मुग्धोऽसि तातेनोपालम्भीति स दुर्वचः ।। १३ ॥ विद्याया बहुरूपिण्याः, प्रसादेन गरीयसा । तत्स्वरूपं परिज्ञाय, निखिलं श्रेष्टिमूस्ततः ।। १४॥ स्वपितृशिक्षासारण, किञ्चिन्म्लानमुखाम्बुजः । एकाकी पुरि चम्पायां, सार्थवाहगृहं गतः ॥ १५॥ स्वप्नालोकितकल्पद्रुसंवादप्रीतचेतसा। गौरवं गौरवंशस्य, तस्य तेनापि निर्ममे ॥१६॥ सदाचारतया तिष्ठन्नसौ तत्र पवित्रहृत् । तत्कुटुम्बं व्यधादर्हद्धर्मकमैककर्मठम् ॥ १७ ॥ विज्ञातकुलशीलाय, तद्गुणाकृष्टहृत्क्रमात् । ददी हारप्रभा कन्या, धनस्तस्मै कृतोत्सवम् ॥ १८ ॥ नानायौतकदानेन, तस्मिन् सन्मानशालिना। जामातुर्व्यतनोत्तस्य, सार्थेशः ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org