SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ विशति 0 पान 0 . . ॥१२॥ . . . . . . . . . . . ... | इत्यर्थः ) जगत्रयनमस्यस्य, वासुपूज्यजिनेशितुः ॥ ४९ ॥ प्रासादं जगदाहादप्रदमद्राक्षमन्नतम् । त्रैलोक्यसुन्दरं नाम, थाम स- वद्भुितश्रियः ॥ ५० ॥ युग्मम् । दिवस्पतिरपि प्रेक्ष्य, यस्य सौन्दर्यसम्पदम् । स्वर्विमानश्रियो नैव, स्मरत्यपि मनाग विभो ! ॥५१ ।। तत्र त्रैलोक्यनेत्राणां, कामणं मणिनिर्मिताम् । प्रतिमामुपमातीतां, दिव्याभरणभूषिताम ॥ ५१ ।। तस्य नेवातिया कृत्य, जिनेन्द्रस्य जगत्पतेः । साफल्यं मे दृशां जज्ञ, सत्पुण्योदययोगतः ॥ ५३ ॥ युग्मम् । तत्र श्रीवर्मघोषाख्यमुनिनाथस्य सनिधौ । धर्मचिन्तामणिः प्राप्तः, प्राप्तव्यावधिराहतः ॥ ५४ ॥ स्वरूपं तस्य सिद्धानां, सिद्धेश्च गुरुणोदितम् । मन्त्री धात्रीपतेग्ने, तदोवाच यथास्थितम् ।। ५५॥ तत्स्वरूपं नृपस्वान्ते, रत्नादर्श इबोज्ज्वले । प्रतिबिम्बीभवत्साक्षादीक्षितं तत्ववेदिमिः ।।५६ ।। अत्रान्तरे नरेन्द्रस्योद्याने ध्यानेप्सितप्रदः । महर्षिः समवासाषींद, धर्मघोषो मुनीश्वरः ।। ५७ ।। नृपस्तदागमं ज्ञात्वा, प्रमोदभरमेदुरः । तवागत्य ववन्दे तं, मुनीन्द्र मन्त्रिणा समम् ।। ५८ ॥ समं सिद्धस्वरूपेण, गुरुणा करुणामयः । धर्मः सम्यग् द्विधाऽऽख्यायि, साधुश्रावकभेदतः ।। ५९ ॥ आर्हतः सार्हतं धर्म, सद्दर्शनमनोहरम् । तदा प्रपद्य पुण्यात्मा, वन्दित्वा पृथ्वानिति ॥ ६ ॥ मुक्तात्मनां कथं भक्तिरस्मामिः क्रियते ? यतः। अमी दृग्गोचरीभावं, न भजन्ते कदाचन ॥ ६१ ॥ गुरुराख्यन्महाराज !, निजात्मानं निरञ्जनम् । शाश्वतैकप्रतिष्टानं, विमुक्तं निखिलैर्गुणैः ।। ६२ ।। सिमस्वरूपसम्मिश्र, निष्कषायो जितेन्द्रियः । योध्यायति विशुद्धात्मा, तल्लयालीनमानसः ॥ ६० ।। मुक्तात्मनां प्रतिकृतीः, सिद्धस्थानेषु संस्थिताः । नमस्करोति भावेन, द्विधा पूजापुर स्सरम् ॥ ६१ ॥ सिद्धभक्तिर्भवेत्तस्य, घातिकर्मविघातिनी । क्रमेण विजगन्नाथपदसम्पनिबन्धनम् ॥ ६२ ॥ इत्याकर्ण्य विभुः पृ| व्याः, प्रमोदी गुरुसन्निधौ । सिद्धभक्तिपदं सम्यक, प्रपेदे सततोदयः ॥ ६३ ॥ आजगाम निजं धाम, प्रणम्याथ मुनीश्वरम । || . Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy