SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ स्थान विंशति- निदानं तीर्थक्रत्पदः ॥ १७ ॥ निशम्य देशनामेवं, स राजा गुरुसन्निधौ । प्रतिपद्याहंतं धर्म, सम्यग्दर्शनवासितः ॥ १८ ॥ ॥९॥ जिनेन्द्रमन्दिर हैम, निकषा राजमन्दिरम् । निर्माय नगरस्यान्तः, प्रतिमां तामतिष्ठिपत् ॥ १९॥ युग्मम् ॥ ( तामिति कुटीरमध्यस्थितां) पात्रेऽर्हति धनं न्यस्तं, रत्नपात्र इवामृतम् । प्रकल्प्यते नृणां भुक्तिमुक्तिसौख्योपपत्तये ॥ २० ॥ इति ध्यात्वा स्वयं भूमानाचं स्थानं सृजन् सुधीः । महति रम जिनेन्द्र विनिश्छद्माऽऽन्तरभक्तिभृत् ॥ २१ ॥ कैलाससदृशान्यूामहच्चैत्यान्यचीकरत् । यच्चैत्यनिर्मितेरहत्पदवी प्राप्यते नृणाम् ॥ २२ ॥ केवलिना प्रतिष्ठा प्य, महोत्सवपुरस्सरम् । अतिष्ठिपन्जिनाधीशप्रतिमारतेषु काश्चन ॥ २३ ॥ रत्नमाणिक्यगाङ्गेयालङ्कारस्ता अभूषयत् । तासां स्नात्रोत्सवं भक्त्या, विदधे सर्वपर्वसु ॥ २४ ॥ तदाज्ञां पालयामास, पञ्चाश्रवनिरोधतः । वृद्धिं निनाय तद्रव्यं, दानादानविधानतः ॥ २५ ।। साधर्मिकेषु वात्सल्य, तन्वन् दीनदयामयम् । निर्ममे विधिना तीर्थयात्राः पाविश्यकारिणीः ॥ २६ ॥ षइमिः कुलकम् । एवमाराधयन्नाद्यस्थानकं जिनभक्तिभृत् । बबन्धे तीर्थकृत्कर्म, देवपालो नरेश्वरः ।। २७ । मनोरमान्यदा देवी, नरेन्द्रेण समं बहिः । वजन्ती कश्वनालोक्य, नरं काष्ठ भरोद्रहम् ॥ २८ ॥ मूछीमाप्य क्षणं शीतोपचारैर्जातचेतना । कुर्वन्ती नृपतेर्हर्षमस्मात्प्राग्भवं भवम् ॥ २९ ॥ युग्मम् ।। | ततः सा नृपति स्माह, स्वामिन्नेष पतिर्ममे । आसीद् दरिद्री दुष्कर्मा, प्राग्भवे काष्ठहारकः ॥ ३० ॥ अन्येचुरमुना साकं, गतया काष्ठहेतवे । मयाऽदर्शि जिनाधीशबिम्बं गिरितटीतटे ॥ ३१ ॥ प्रक्षाल्य पयसा पूर्व, पूजयित्वा सुमादिमिः । नमश्चके मया भक्त्या, प्रभूतप्रीतचेतसा ॥ ३२ ॥ अयमेव मया प्रोचे, गिरा मधुरया तदा । नत्वाऽहत्पतिमामेतां, स्वं जन्म त्वं कृतार्थय ।। ३३ ।। अस्य देवाधिदेवस्य, जगदानन्ददायिनः । भवकोटिकृतं पापं, विनाशं याति वन्दनात् ।। ३४ ॥ असावभव्य Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy