________________
विंशति
स्थान
॥८॥
॥ ९४ ॥ यतः-+ उक्कोसं दवपूअमाराहिय जाइ अच्चुअं जाव । भावपूएण पाक्द, अंतमुहुत्तेण निधाणं ।। ९५ ।। मेरुस्स सरिसवस्स य, जत्तियमित्तं तु अंतरं होई। दवपूअभावपूआण, अंतरं तत्तियं जाण ॥ ९६ ।। सात्त्विकी राजसी भक्तिस्तामसीति विधाऽथवा । जन्तोस्तत्तदमिप्रायविशेषादहतो भवेत् ॥ ९७ ॥ अर्हत्सम्यग्गुणश्रेणिपरिज्ञानेकपूर्वकम् । अमुञ्चता मनोरङ्गमुपसर्गेऽपि मूयसि ॥ ९८ ॥ अर्हत्सम्बन्धिकार्यार्थ, सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात, क्रियते या निरन्तरम् ॥ ९९ ।। भक्तिः शक्त्यनुसारेण, निःस्पृहाशयवृत्तिना । सा साविकी भवेद्भक्तिोंकद्वयफलावहा । २०० ॥ त्रिमिर्विशेषकम् । यदैहिकफलप्राप्तिहेतवे कृतनिश्चया । लोकरञ्जनवृत्त्यर्थ, राजसी भक्तिरुच्यते ॥ १ ॥ द्विपदापत्प्रतीकारकृते या कृतमत्सरम् । दृढाशयाद्विधीयेत, सा भक्तिस्तामसी भवेत् ।। २ ।। रजस्तमोमयी भक्तिः, सुपापा सर्वदेहिनाम् । दुर्लभा सात्त्विकी भक्तिः, शिवावधिसुखावहा ॥ ३ ॥ उत्तमा सात्त्विकी भक्तिमध्यमा राजसी पुनः । जघन्या तामसी ज्ञेयाऽनाहता तत्त्ववेदिभिः ।। ५ ।। अथवा पञ्चधा भक्तिभेदैः पुष्पार्चनादिभिः । विधिवद्विहिता दत्ते, सुखानि निखिलान्यपि ॥ ५॥ यतः--पुष्पाद्यर्चा तदाज्ञा च, तद्रव्यपरिरक्षणम् । उत्सवास्तीर्थयात्रा च, भक्तिः पञ्चविधार्हति |॥ ६ ॥ स्यादाभोगादनाभोगाद्, द्विधा वा भक्तिराहती । आद्या सर्वोत्तमा ज्ञेया, द्वितीयादिगुणावहा ॥ ७ ॥ यतः--
శనం ఉం ఉం ం ం 4 గురు పరంపరం గా వరం
+ उत्कृष्टां द्रव्यपूजामाराध्य यात्यच्युतं यावत् । भावपूजया प्राप्नोति अन्तर्मुहूत्तेन निर्वाणम् ॥ ९५ ॥ मेरोः सर्षपस्य च यावन्मात्रं स्वन्तरं भवति । द्रव्यपूजाभावपूनयोरन्तरं तावजानीहि ॥१६॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org