SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ उनविधिः स्मृतिमाजगाम ॥ ४३ ।। आयुर्वर्षशतं नृणां परिमितं रावी तदर्घ गतं, तस्याईस्य कदाचिदमधिकं बालत्ववृद्धत्वयोः । Hशेषं व्याधिजरावियोगविवशैः सेवादिभिर्नीयते, मानुष्ये चपले चलाचलतमे सौख्यं कुतः प्राणिनाम् ? ॥ ४४ ।। एकजन्मसुरवस्यार्थे, कल्पान्तं नरकायुषः। अचिराय शरीराय, किमर्थं पापमाचरेत् ? ।। ४५ ।। इत्याकर्ण्य गुरोर्वाचं, प्रबुद्धः स्माह भूपतिः । कियदायुर्विभो ! मेऽस्ति, स जगौ दिवसत्रयम् ।। ४६ ।। श्रुत्वैतद्विदधे भूमान् , पश्चात्तापं निजे हृदि । अहो मया महैश्वर्यप्रमादविवशात्मना ।। ४७ ।। सुकृतं न कृतं किञ्चिद्भवान्तरसुखावहम् । वृथैव हारितं जन्म, पापकमैंककारिणा ॥ ४८ ॥ युग्मम् ॥ भुवनं जिनस्य न कृतं, न च बिम्ब नैव पूजिता गुरवः । दुस्तपतपो न तप्तं, जन्म मुधा हारितं मूद्वैः । ४९ ॥ कुर्वन्ननुशयं भूमानेवं सर्वाङ्गिसाक्षिकम् । आश्वासितो मुनीन्द्रेण, मुधामधुरया गिरा ॥५०॥ वर्षकोटितपोभियंत् , पुण्यमन्यैरुपाय॑ते । अन्तर्मुहूर्तमात्रेण, तदन्येन महात्मना ॥५१॥ तथापि साम्प्रतं राजन्!, शुद्धसम्यक्त्वपूर्वकम् । भजस्व देशतो धर्म, द्वादशवतम षितम् ॥५२॥ सम्यग्दष्टेरनुष्ठानं, यतः स्तोकमपि ध्रुवम् । निर्जरायै भवेद्राजन्!, भूयः क्लिपाष्टकर्मणाम् ॥५३॥ ततो गृहीत्वा साकारं, धर्म सद्दर्शनोज्ज्वलम् । राजा केवलिनं भक्त्या, प्रणम्यागान्निजं गृहम् ॥ ५४॥ अथ दध्यौ धराधीशश्चङ्गसंवेगपूरितः । निराधारं धरैश्वर्य, मोक्तुं युक्तं कथं मम ? ॥ ५५ ॥ आयुस्तु सुतरां स्तोकं, राज्यभारधुरन्धरः । कोऽप्यस्ति नात्मजो गेहे, ततोऽहं करवाणि किम् ? |॥५६॥ इति चिन्तातुरे राज्ञि, राज्याधिष्ठायिकाऽवदत् । पञ्चाधिवास्य दिव्यानि, मुच्यन्तां परितः पुरः ॥ ५७ ॥ अमीभिराभ पिक्तस्य, स्वकन्योद्वाहपूर्वकम् । राज्यं पुंसस्त्वया देयं, ततो वृद्धिर्भविष्यति ॥५८ ॥ ततस्तथा कृते राज्ञा, सचिवादिविचारतः । | देवपालोऽभवद्राजा, जिनपूजानुभावतः ।। ५९ ॥ सुतां मनोरमां तस्मै, प्रदाय समहोत्सवम् । ततः केवलिनः पार्श्व, तपस्यामाददे | Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy