SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ FROO p 0000078/0ookeratook00080 पयाचितशतैरासीद्विश्वैकविश्रुता । मनोरमा रमाकारा, तयोः पुत्री पवित्रधीः ॥ ९॥ अथात्रैव पुरे श्रेष्ठी, जिनदत्तः सतां मतः । राज्यमान्योऽभवद् भूयोधनेन धनदोपमः ॥ १० ॥ सम्यग्दृष्टिशिरोरत्नमुपकारपरम्पराम् । यः कुर्वन् पौरवर्गस्य, विरराम न हि क्वचित् ॥ ११ ॥ तद्गृहे देवपालोऽभूद्, भूपालान्वयसंभवः । कृपालुः सर्वजीवेषु, धर्मपुत्रोऽप्यतिप्रियः ॥ १२ ॥ विज्ञात| जिनधर्मोऽसौ, सुसाधुगुरुसङ्गमात् । गोकुलं श्रेष्ठिनस्तस्य, पालयत्यनुवासरम् ॥ १३ ॥ वर्षाकालेऽन्यदा वारिप्लाविते सरितस्तटे। स युगादिजिनाधीशमूर्तिमैक्षिष्ट निर्मलाम् ॥ १४ ॥ चिन्तामणिमिवालोक्य, तामसौ मुदिताशयः । सुकृती कृतवानेवं, विमर्श निजमानसे ॥ १५ ॥ अहो पुण्योदयः कोऽपि, प्रादुरासीन्ममाधुना । यदियं त्रिजगद्ध -मूतिर्दृग्पथमागमत् ॥१६॥ भगुरेतरभाग्यानि, न विना दर्शनं निजम् । देवो दत्ते परोऽप्येष, विशेषात्रिजगत्पतिः ॥ १७॥ पवित्रे तदसौ स्थाने, क्वापि स्थाप्या मयाधुना । स्थापयन्नहतो मूर्ति, जगत्पूज्यो भवेद्यतः ॥ १८ ॥ ततस्तृणमयं वेश्म, निवेशमिव सम्पदः । कृत्वा तत्र सरित्तीरे, स तां पीठोपरि व्यधात् ॥ १९॥ यावज्जीवमिमां मूर्तिमहतो गर्हितापहाम् । पूजयित्वा नमस्कृत्य, मया भोक्तव्यमन्वहम् ॥ २० ॥ सर्वेषु सविशेषं तु, चतुर्दश्यादिपर्वसु । इत्युग्रभाववान् देवपालोऽभिग्रहमग्रहीत् ॥ २०॥ युग्मम् । ततोऽसौ चारयन्नित्यं, सुरभीः सुरतिस्थितिः । अर्चयादिजिनाधीशप्रतिमां कुसुमादिभिः ॥२१॥ पयसैकार्णवीभावं, लमिते मण्डले भुवः । निरन्तरमहावृष्टया, सप्तरात्रं पयोमुचः ॥ २२ ॥ तदर्चनकृते गन्तुं, तेनाशक्नुवता बहिः । अभिग्रहवता सप्तोपवासाः खलु निर्मिताः ॥ २३ ॥ युग्मम् । सप्ताहं सततं जैनपूजाध्यानवशाशयः । क्षपणैः क्षपयामास, क्लिष्टकर्मावलीशमसौ ॥ २४ ॥ निवृत्तायां ततो वृष्टौ, कृशीमूते पयःप्लवे । अष्टमेऽति जिनेन्द्रस्य, पूजार्थं स ययौ प्रगे ॥ २५ ॥ तां मूर्ति Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy