SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ विंशति स्थान० ॥७७॥ बंधुपतीजाते, जयंत जयशालिनम् | स्वपदे सेोत्सवं न्यस्य निरस्य भवरम् || १३ || द्विवा गुरोधतुःशत्या, नरेंद्राणां समं सुधीः । समीपे स्वपितुदीक्षां जग्राह दयितासखः || १४ || युग्मम् । अधीत्यैकादशांगानि, राजर्षिविधिपूर्वकम् । स्थानाभिग्रहं घोरं चक्रे गुरुगिरा यथा १५ ॥ संघस्य भोज्यवस्त्रादिदानैरापनिवारणैः । तीर्थयात्रादिकार्येषु, प्राज्य साहाय्यपूरणैः ॥ १६ ॥ भक्तायैः साधुसाध्वीनां श्राद्धश्राद्धीवजस्य च । कृत्यैर्यथोचितैः कुर्वन् समधानं त्रिशुद्धिः ॥ १७ ॥ स्थानं सप्तदशं तीर्थकर कर्मनिबंधनम् । आराध्य पुरंदरर्षिर्यावज्जीवं पराक्रमी ॥ १८ ॥ यतः - श्री संघवात्सल्यमुदारचित्तता, कृतज्ञता सर्वजनेष्वनुग्रहः । प्रपन्नधर्मे दृढतापूजनं, तीर्थकरैश्वर्य निबंधनानि । १९ । राजर्षिहृदयस्थैर्य - परीक्षार्थी बिडौजसा । आद्येन पुंडरीकाद्रि- यात्रायां विधिना व्रजन् ॥ २० ॥ सम्यग्ज्ञानक्रियाशाली, सत्पात्रेषु धनव्ययी । श्रीसंघो दर्शितो भूयान् पादगामी चतुर्विधः ॥ २१ ॥ किंचिलाखांभोज, पथि पाथेयमंतरा । श्रीमलयप्रभसूरीनत्वा संघो व्यजिज्ञपत् ॥ २२ ॥ निवेदय मुनिस्वामिन् ! मुनिसंघसमाधिदम् । गुरुणा दर्शितस्तस्य स राजर्षिरुदारहृत् ।। २३ ।। ततो राजर्षिमानम्य, श्रीसंघस्तीर्थमार्गगः । विनयं दर्शयन् सम्पग्, निजगाद सगदम् || २४ || चोरै रुद्धस्य संघस्य, पाथेयं नास्ति सन्मुने ! । भवता भवतापार्त्तितायिना देयमंजसा ॥ २५ ॥ भूयस्यो लब्धयः संति, भवतोऽतितपस्विनः । निर्व्याजं संघवात्सल्य सद्व्रतैकावधायिनः ।। २६ ।। श्रीमान् श्रमण संघस्तु, माननीयोऽर्हतामपि । ततस्त्वयाऽपि सान्निध्यं विधेयं तस्य सांप्रतम् ॥ २७ ॥ यतःदेव' गुरुसंघकज्जे, चुनिजा चक्कवट्टिन्नपि । कुविओ मुणी महष्पा पुलागलदीइ संपन्नो ॥ २८ ॥ गुरोरादेशमा साथ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy