SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ ..... 18 वैजयन्ते सुराप्रणीः ।।७४ ॥ ततो जीमूतरा जार्षश्चयुत्वा तत्स्कृतोदयात् । श्रीकच्छविजये भावी, जगत्पूज्यो जिनेश्वरः ॥ ७५॥ निरतीचार चारित्रा, यशोमत्यपि संयती । तत्रैवाऽऽसाद्य देवत्वं, तद्गण भृद्भविष्यति ॥७६॥ जीमूतकेतुप्रथिवीपतिवृत्तमेतत् , श्रुत्वा जिनेन्द्रपदकर्मनिबन्धसरम् । यनं सृजन्तु विधिना मुनिवर्गवैयावृत्त्ये जगद्गुरुगरिष्ठसुखस्पृहा चेत् ।। ७७ ॥ ॥ इति बयाहत्यकरणोपरि नृपश्रीजीतकेतुकथा षोडशस्थानके समाप्ता। अथ सप्तदशस्थानकस्वरूपं. तत्र सकलगुणस्तरत्नाकरस्य त्रिभुवनजनमहनीयस्य चतुर्विधविशुद्धधर्माधाररूपस्य श्राश्रमणसङ्घस्य निर्भरमक्तिभरगर्भसमाधिषिवेकिमा विधेय :,यतः-यः संसारनिरासलालसमतिर्मुत्त्यर्थमुत्तिष्ठते, यं तीर्थ कथयन्ति पावनतया येनाऽस्ति नान्य : समः। यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं जायते, स्फूर्तियस्य परा वसन्ति च गुणा यास्मिन् स सङ्घोऽर्च्यताम् ॥१॥ नाईतः परमो देवो, न मुक्तेः परमं पदम् । श्रीसद्घान्न परं क्षेत्रं, नास्ति नास्ति जगत्त्रये ॥ २॥ समाधिस्तु द्रव्यभावाभ्यां द्विविधः, यत:-- *मण वंछियवस्थूणं, दाणेणं दाणदुहियजीवाणं । जं किज्जइ संतोसो, दब्बसमाही हवइ एसो ॥३॥ सारणवारणचोअणदाणेण संठवेइ दिहिपुव्वं । जं नाणाइगुणेसु, भावसमाही हबह एसो ॥ ४ ॥ तपः कुर्वन्ति दुःखार्ता, नीचा अपि यथा तथा । परं समाधिमाधातुं, गरीयांसो भवन्त्यलम् ॥ ५॥ इति । यः समाधि द्विधा सके, विधचे विश्वपूजिते । स तीर्थकृत्पदं पुण्यं, पुरन्दर इवाऽऽयत् ॥ ६ ॥ तद्यथा-वाराणस्यां पुरि प्रौढविजयश्रीविराजितः । राजा * मनोवाञ्छितवस्तूनां दानेन दीनदुःखितजीवानाम् यः क्रियते संतोषो द्रव्यसमाधिर्भवत्येष : । ३। स्मारणवारणचोदनादानेन संस्थापयति विधिपूर्वम् । यत् ज्ञानादिगुणेषु भावसमाधिर्भवत्येष : । ४। ॥७३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy