SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ అం - 60000 డాం - आनन्दमेदुरहृदः कलशादिपाठं, सद्भपधूमलहरीसुरभीकृताशाः। मिथ्याशामपि सृजन्ति जिनेन्द्रधर्म-स्थैर्य गमीवचसा रचयन्त उर्ध्याम् ॥८३॥ युग्मम् । नृत्यनारीसहस्रं चलचमरयुगं वादितानेकवाद्यं, व्याक्षिप्ताशेषलोकं सकलसुरगणं कुर्वदानन्दपात्रम्। स्नावं लाक्यनेतुर्दुरितशतहृतिः श्राद्धलोकः क्रमेण, कुर्या देवेन्द्ररीत्या जिनमतगुरुतां दर्शयन् वारिपूरैः ॥ ८४ ॥ अमिषेकतोयधारा, धारेव ध्यानमण्डलाग्रस्य । भवभवनमित्तिभागान्, भूयोऽपि मिनत्तु भागवती ॥ ८५ ॥ एतद्वृत्तं पठन्तोऽथ, श्रावकाः शुद्धवारिणा। सन्तापशान्तये धारां, जैनबिम्बोपरि व्यधुः ॥ ८६ ॥ गन्धकापयिकाख्येन, सिचयेन जिनेश्वरम् । रत्नादर्शमिवोन्मृज्य, व्यधुरुज्ज्वलमाहताः ॥ ८७ ॥ ततः पूजां यथोद्दिष्टां, श्रीखण्डकुसुमादिभिः । रचयन्त्यद्भुतां भक्त्या, यथायोगं जिनेशितुः ॥ ८८ ॥ विधि विधाय निःशेष, सम्यक् लवणवारिभिः । चन्दनस्वस्तिकं कृत्वा, रत्नस्थालोपरिस्थितम् ॥ ८९॥ अभ्यर्च्य चन्दनैः पुष्पैः, प्रणम्य च जगत्पतिम् । विधिनोत्तारयत्युच्चै-र्दीपमारात्रिकं सुधीः ॥ ९० ॥ मङ्गलोपपदं दीपं, गजेन्द्रारूढमुज्ज्वलम् । विधत्ते विधिना धीमान् , चर्चितं चन्दनादिभिः ॥ ९१॥ यतः त्रिषष्टीयश्रीआदिचरित्रे-प्रमोदतः सुरगणैः, प्रकीर्णकुसुमोत्करम । भर्तुरुत्तारयामास, तत्रिस्त्रिदशपुंगवः ॥ ९२ ॥ श्रेयोदीपं प्रदीपं तं, निवेश्य श्रीजिनाग्रतः । भावपूजाकृते श्राद्धः, कुरुते चैत्यवन्दनाम् ॥ ९३ ॥ इति स्नात्रम् ॥ अथाद्यस्थानकं कुर्वन्नहद्भक्तिचिकीर्षया । विशेषात् कुरुते सम्यग्दृष्टिः पूजां द्विधाहताम् ॥ ९४ ॥ पदस्थध्यानशुद्धात्मा, परमेष्ठिनमस्कृतेः । अष्टोत्तरसहस्रं, तु, जपेदाद्यपदं सुधीः ॥ ९५ ॥ यद्वा पठन् शुचिमनाः परमेष्ठिमन्वं, सम्पत्पदाक्षरलयोत्तमसाम्यशीतः । श्रीखण्डपुष्पवरतण्डुलपूजनेन, भक्तिं महोदयपदं कुरुते जिनस्य ॥ ९६॥ इत्यहत्प्रतिमाया यः, षण्मासी भक्तिमद्भुताम् । 30000000000000000000000000000000000 ఎం,000 నుంచి Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy