________________
विंशति-1 11811
स्सरम् ॥ ६८ ॥ यतः—— इह होइ असणपूआ, वरखज्जगमो अगाइभक्खेहिं । दुद्धदहीवयाईणं (हिवयाइ ) भायणेहिं तह ओअाईहिं ।। ६९ ।। साइमपूआइ पुणो, नेयं पूगफलपत्तगुलपमुहं । पंचगुलिलिहणाई, पुप्फपगराइदीवेहिं ॥ ७० ॥ गंधव्वनट्टवाईय- लवणजलारत्तिआइदीवेहिं । जं किज्जइ तं सव्वं, अवयरई अग्गपूआए ।। ७१ ॥ ततः सुश्रावकः कुर्वन्, लवणाम्बुविधिक्रमम् । कुर्वीतारात्रिकं पूजा- पूर्व मङ्गलदीपकम् ॥ ७२ ॥ नैषेधिकीविधानेन, भावपूजाविधित्सया । प्रमाज्यवीं प्रतिक्रम्येर्यापथिकीं समाधिमान् ।। ७३ ।। मुद्रात्रिकादिविधिना, द्वादशाधिकृतिस्थितेः । पञ्चाङ्गप्रणिपातेन, वन्दित्वा वन्दतेऽर्हतः ||७४ || प्रत्यहं समनुष्ठेयो, देवपूजाविधिः सताम् । स्नात्रोत्सवविधिः किञ्चित्, संक्षेपादुच्यतेऽधुना ।। ७५ ।। तत्र — धौतवासाः सदाचारः, सालङ्कारः सुधीः शुचिः। पुरो विधाय बिम्बस्य, कलशं जलसम्भृतम् ।। ७६ ।। निर्माल्यकरणं सूत्र - पाठपूर्व जगद्गुरोः । कुरुते श्रावकः शुद्धो, धूपोत्क्षेपपुरस्सरम् ।। ७७ ।। युग्मम् । किं लोकनाथ ! भवतोऽतिमहार्घतैषा, किंवा स्वकार्यकुशलत्वमिदं जनानाम् । किंवाद्भुतं सुमनसां गुण एष कश्चिदुष्णीषदेशमधिरुह्य विभाति येन ॥ ७८ ॥ प्रतिमोष्णीषभागे तु, कुसुमारोपणं व्यधुः । पद्येनानेन वन्दारु - लोकानां श्रेयसे किल ।। ७९ ।। ततः पुष्पाञ्जली : पञ्च, सप्त वा श्रीजिनेशितुः । विधिनाग्रे विधायोच्चै - स्तूर्यध्वानमनोहरम् ||८०|| जन्माभिषेकं जैनेन्द्र, गन्धर्वश्रुतिबन्धुरम् । पठति श्रावकः श्रीमान्, सुधासोदरया गिरा ॥ ८१ ॥ युग्मम् ॥
स्वर्णरूप्यकलशाङ्कितहस्ता, हस्तिराजपतिसन्निभशोभाः । श्रावकाः सकललोकविलोक्यस्तोकभूषणभृतो गुणवन्तः ॥८२॥ $ इह भवत्यशनपूजा वरखाद्यमोदकादिभक्ष्यैः । दुग्धदधिघृतादिभाजनैस्तथैौदनादिभिः ॥ ६९ ॥ स्वाद्यपूजायां पुनर्नेयं पूगफलपत्रगुडप्रमुखम् । पञ्चाङ्गुलिलेहनादि पुष्पप्रकरादिदीपैः । ॥ ७० ॥ गान्धर्वनाट्यवादित्रलवणजलारात्रिकादिदीपैः । यत्क्रियते तत्सर्वं अवतरति अग्रपूजायाम् ॥ ७१ ॥
Jain Education International
For Private & Personal Use Only
स्थान०
www.jainelibrary.org