SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ देहो, सुरपवरो वरविमाणमि ।। ५३ ॥ वस्त्रेणातिपवित्रेण, मृदुना च सुगन्धिना । सावधानतया जैन, बिम्बं कुर्याद्गतोदकम ॥५४॥ कर्पूरकेसरोन्मिश्र-श्रीखण्डेन ततोऽर्चनाम् । कुर्वन् जिनेशितुर्भाले, कुर्वीत तिलकं धुरि ॥ ५५॥ नवाले तिलकैः कार्या, ततः पूजा जगत्पतेः । अहिजानुकरांसेषु, शीर्षे श्रीखण्डयोगतः ॥५६॥ पश्चादालिपयेदङ्गं, घुसणैर्मसृणैर्विभोः । कण्ठे हृदि न्यसेच्छी र्षे, ततः स कुसुमस्रजः ॥ ५७ ॥ मुकुलैः कुसुमैः सृष्टया, विस्फुरदरिसौरभैः। वस्त्रावृतमुखाम्भोजः, पूजयेच्छीजिनं ततः ॥ ५८ ॥ पञ्चवर्णैस्ततः पुष्पै-र्यथास्थानंनियोजितैः। अर्चनां रचनायोगादचयेद्रुचिदां नृणाम् ॥ ५९॥ यतःन शुष्कैः पूजयेद्देवं, कुसुमैन महीगतैः । न विशीर्णदलैः स्पृष्टै- शुभै विकाशिमिः ॥ ६॥ कीटकेनापविद्धानि, शीर्णपर्युषितानि च । वर्जयेद्वर्णनाभेन, वासितं यदशोभनम् ॥ ६१ ॥ पूतिगन्धीन्यगन्धीनि, आम्लगन्धीनि वर्जयेत् । मलमूत्रादिनिर्माणा-दुत्सृष्टानि कृतानि च ॥ ६२ ॥ ग्रन्थिमादिचतुर्भेदैः, पुष्पैः सद्यस्कसौरभैः । निजान्यहृदयानन्द-दायिनी कुरुतेऽर्चनाम ॥ ६३ ॥ ततोऽर्चयेजिनाधीशं, नालिकेरादिमिः फलैः । प्रियकरैरशीर्णाङ्गै- गवल्लीदलैस्तथा ॥ ६४ ॥ अक्षतै रक्षितर्विश्वं. पुरः पुजत्रयं सृजेत् । ज्ञानदर्शनचारित्र-शुद्धये शशिनिर्म लैः ॥ ६५॥ राजतैस्तण्डुलैरये, रचयेदष्टमङ्गलीम् । दर्पणादिसदाकारैमालार्थ दिने दिने ॥ ६६ ॥ यतः- दिप्पण १ भद्दासण २ वद्ध-माण ३ सिरिवच्छ ४ मच्छ ५ वरकलसा ६ । सच्छिय ७ नंदावत्ता ८, लिहिया अट्ट मंगलया ॥ ६७ ॥ वासधूपप्रदीपादि-पूजां कृत्वा ततः पुनः । नैवेद्यं दर्शयेत्पूतं, वारिपात्रपुर + दर्पणं भद्रासनं वर्धमानं श्रीवत्समत्स्यवर कलशाः । स्वस्तिकनन्दावत्तौं लिखितान्यष्टाष्ट मङ्गलकानि ॥ १७ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy