SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ विंशति ॥६६॥ अथ चतुर्दशस्थानकस्वरूप, तत्र पूर्वोक्तस्वरूपे द्वादशप्रकारे तपसि विशेषतो यनो विधेयः, यतः--यस्माविघ्नपरम्परा विघटते दास्यं सुराः कुर्वते, कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुन्मीलति । उत्सर्पन्ति महर्षयः कलयति ध्वंसं च यः कर्मणां, स्वाधीन त्रिदिवं शिवं भवति च श्लाध्यं तपस्तन्न किम् ? ॥१॥ अपैति तपसा कर्म, निकाचितमपि क्षयम् । यदागमे | गणधरैः, प्रोक्तमेवं तपःफलम् ॥२॥ कर्म निर्जरयत्पन्नग्लायकः संयतो हि यत् । नरके नारका वर्षशतेनापि न तत्खलु ॥३॥ प्रातरेव क्षुधा ग्लायन्, यः स्यात् पर्युषिताऽशनः । अथवा निःस्पृहः प्रातर्भोज्यन्नग्लायकः स्मृतः ॥ ४॥ तथा चतुर्थभक्तेन, यत्कर्म क्षपयेन्मुनिः । न तन्नैरयिका वर्षसहस्रेणापि दुःखिताः ॥५॥ षष्ठभक्तेन या साधोनिर्जरा कर्मणां भवेत् । लभन्ते नारका वर्षलक्षेणापि न तां ध्रुवम् ॥ ६॥ मुनेरष्टमभक्तस्य, निर्जरा क्लिष्टकर्मणः । या भवेद्वर्षकोट्यापि, न सा नरकवासिनः | ॥ ७॥ दशमाहारिणो यावान, क्षयो दुष्कर्मणां भवेत् । कोटाकोट्यापि वर्षाणां, न तावन्नारकाङ्गिनः ॥८॥अट्टमभत्ते कोडी कोडाकोडी य दसमभत्तंमि । अओपर बहुनिज्जरहेऊ नूणं तवो भणिओ ॥ ९॥ दुष्कर्मद्रुमभङ्काय, द्विरदोपमविक्रमे । द्विविघे तपसि प्राज्ञ !, प्रमादं मा कृथा वृथा ॥ १० ॥ तप्यमानस्तपस्तीनं, मुनिः प्रशमशीतलः । वृणुते तीर्थकृल्लक्ष्मी, भूभृत्कनककेतुवत् ॥ ११ ॥ अन्याङ्गिपरितापेन, निर्विविवेकतया पुनः । क्रियते सनिदानैर्यत्, पुण्यं पापानुबन्धि तत् ॥ १२ ॥ * अष्टमभक्ते कोटी कोटाकोटी च दशमभक्तेः । अतः परं बहुनिराहेतु: नूनं तपो भणितम् ॥ ९ ॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy