________________
| रुवाईयं तमिह झाणं ॥ १३ ॥ ध्यानं विधित्सता ज्ञेयं, ध्याता ध्येयं तथा फलम् । सिध्यन्ति न हि सामग्री, विना कार्याणि | कर्हि चित् ॥ १४ ॥ इन्द्रियैः सममाकृष्य, विषयेभ्यः स्वमानसम् । धर्मध्य नकृते तस्मान्मनः कुर्वीत निश्चलम ॥ १५॥ विरतः कामभोगेभ्यः, स्वशरीरेऽपि निःस्पृहः । संवेगहूदनिर्मग्नः, सर्वत्र समतां श्रयेत् ॥ १६ ।। सुमेरुरिव निष्कम्पः, शशीवानन्ददायकः। समीर इव निस्सङ्गः, सुधीर्ध्याता प्रशस्यते ॥ १७॥ आत्मनश्चिन्मयं रूपं, परब्रह्मैकतां गतम् । स्वदेहस्थं सदा ध्येयं, सुधियोपाधिवर्जितम् ॥ १८ ॥ निवेश्य हृदयाम्भोजे, पदानि परमेष्ठिनाम् । तद्वर्ण लयलीनात्मा, ध्यायेतानन्दमेदुरः ॥१९॥ अर्हन्तं कर्मनिर्मुक्तं, केवलज्ञानभास्करम् । आसीनं समवसृतौ, प्रातिहार्यविराजितम् ॥ २० ॥ ध्यानालम्बनतां नीत्वाऽथवा मूतीर्जिनेशितुः । मनसः स्थिरतां कुर्यानिर्विकल्पं समाधिमान् ॥ २१ ॥ क्रमेणाभ्यासयोगेन, सम्यग्योगविदग्रणीः । संध्यायेत्परमात्मानं, निराकार निरञ्जनम् ॥ २२ ॥ प्रच्छन्नपाप्मनः शुद्धिरिहाधिव्याधिनिर्गमः । परत्र परमैश्वर्य, पदस्थध्यानसिद्धितः ॥ २३ ॥ अतीतानागतार्थानां, | वेदिताऽष्टसमृद्धयः । बिन्दुनादवपुःशुद्धिः, पिण्डस्थध्यानयोगतः ॥२४॥ रूपस्थध्यानलीनात्मा, क्लिष्टकर्मक्षयात् शमी । लभते केवलज्ञान, प्राणी पुण्यात्यभूपवत् ॥ २५ ॥ रूपातीतपदं ध्यायन्निष्कषायो विकल्पमुक । ध्याता रूपविनिर्मुक्तश्चिदानन्दमयो भवेत ॥ २६ ॥ तथा सुश्रावकेणाप्येतत्स्थानकं कुर्वता प्रमादपरिहारार्थ रागद्वेषपरिहाररूपं बहुशोऽपि सामायिकवतं विधेय. यतः- *
* जीवः प्रमादबहुलो बहुशोऽपिच बहुविधेष्वर्थेषु । एतेन कारणेन बहुशः सामायिकं कुर्यात् ॥ २५ ॥ यः समः सर्वभूतेषु त्रसेषु स्थावरेषु च । तस्य सामायिकं भवति इति केवलिभाषितम् ॥ २६ ॥
॥३॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org