SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ स्थान विंशति॥५०॥ त्रयोस्तयोनित्यकलहोद्वजिता किमु ॥२६॥ प्रचण्डासुखमूढात्मा, प्राप्तोऽसौ बहुमिदिनैः । चण्डालयेऽन्यदा श्रेष्ठी, यन्नवं स्वदतेऽधिकम् ॥ २७ ॥ चण्डा चण्डाशयोत्पाट्य, मुशलं विकटाकृतिः । मुमोच सहसा हन्तुं, तं भर्तारमपि क्रुधा ॥ २८ ॥ तद्भयेन पुनः श्रेष्ठी, नष्टः पश्चाद् द्रुतं क्रमैः । तत्पृष्ठौ पन्नगीभूयायासीन्मुशलमप्यहो ॥ २९ ॥ समीपं स प्रचण्डाया, आगाप्याकुलमानसः । ऊर्वशीव पुरूद्वत, साऽपीति स्माह तं तदा ॥ ३० ॥ आर्यपुत्र ! भृशं श्वासपूरितानननासिकः ॥ स्वेदवान् अथवस्त्रस्त्वं, वेगादेवागतः कथम् ? ॥ ३१ ॥ सोऽभ्यधान्मुशलं. मुक्तं, हन्तुं मां कोपचण्डया । चण्डया पन्नगीभूय, पृष्ठावायाति सत्वरम् ॥ ३२ ॥ ततोऽहं वेश्मनस्तस्याः, पापाया द्रुतमागमम् । जवान्याकुलः पाहि, पाहि मां प्राणवल्लभे ! ॥ ३३ ॥ एवं वदत एवास्य, स भोगी भीषणाकृतिः । फुत्कार पयन् घोरः, सर्व यावदुपाययौ ॥ ३४॥ अङ्गोद्वर्तनसंजातमलसंभारवर्तिकाः । निर्मुक्ताः संमुखं तस्य, पन्नगस्य समन्ततः ॥ ३५॥ दयितं रक्षितुं तावल्लब्धलक्षतया तया । अवधैकपदं विद्या, पठित्वा तत्क्षणादपि ॥ ३६॥ युग्मं ॥ सहसा नकुलीभूय, प्रसर्पन्तं जबोद्धतम् । स तं भक्षयामास, अहो चित्रं तयोर्महत् ॥ ३७॥ स्वस्थीभूतस्ततः श्रेष्ठी, निशि तस्या गृहे स्थितः । दध्यौ स्वान्ते प्रिये ! एते, उमे अपि दुराशये ॥ ३८ ॥ मन्त्रतन्त्रौषधश्रेणिपूरिते सुकृतोज्झिते । एते करिष्यतः कोपं, साकं यदि ममोपरि ॥ ३९ ॥ तदा मे धर्ममुक्तस्य, मरणं शरणं विना । अकालेऽपि समायातं, लोक्यसुखापहम् ॥४०॥ युग्मम् । तस्मादहमितः स्थानादास्यमादाय वेगतः। क्वचिदन्यत्र गच्छामि, यत्र स्यात्सुकृतागमः ॥४१॥ इति निध्याय शुद्धात्मा, त्यक्त्वा ते दयिते रयात् । ततो देशान्तरं गच्छन् , स सांकाश्यपुरं ययौ ॥ ४२ ॥ भानुनामा * అనుమానం రహసనం అన్న అన్నంలో Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy