SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ 80- 800300a96000000000000 ॥६४ ॥ अप्रीतिकारिभिः क्यापि, दुवाक्यः क्रकचोपमः । वृथव दोषमुद्घोष्य, भत्सितोऽप्यप्रियङ्करः ॥ ६५॥ न रागद्वेषकालुष्यनिर्मितं निर्ममाग्रणीः । अतीचारं परं कालातिक्रमं च मनागपि ।। ६६ ।। आनिन्ये समताशाली, प्रष्ठोऽसौ वरतुवेदिषु । विशेषेण विधा शुद्धो, बस्त्वावश्यककर्मसु ॥ ६७ ॥ पञ्चभिः कुलकं । श्रीदेवी मुदितस्वान्ता, प्रादुर्भूय ततो मुनिम् । वन्दित्वा क्षमयामास, तन्वती सद्गुणस्तुतिम् ।। ६८ ॥ धन्योऽसि त्वं महाभाग ! वन्द्योऽसि स्वर्गिणामपि । शब्दादिकगुणग्रामैरभिरामर्मया कृतः ॥ ६९ ॥ रागद्वेषोदयः क्वापि, भवतो भवतोयधेः । पूर्णिमेन्दूदयप्रायो, यस्य नासीन्मनागपि ॥ ७० ॥ त्रिभिर्विशेषकं ।। प्रायेण बहवः सन्ति, द्रव्यावश्यककारिणः । सन्तीह कतिचिनावावश्यकेषु रताः पुनः ॥७१।। स्तुत्वैवं बहुमानेन, नमस्कृत्य पुनः पुनः। श्रीजंगाम निजं धाम, तद्गुणग्रामरञ्जिता ॥ ७२ ॥ चारित्रधर्ममाराध्य, क्रमाद्राजर्षिरुत्तमम् । देवोऽभूद् द्वादशे स्वगें, स्वर्गेश इव संपदा ॥ ७३ ।। ततश्च्युतो विदेहेऽसौ, पदवीमहतोऽद्भुताम् । आसाद्यावद्यमुक्तात्मा, परमात्मा भविष्यति ॥ ७४ ॥ एवं निशम्यारुणदेवभूभृतो, वृत्तं जिनाधीशपदाप्तिभासुरम् । आवश्यकेष्वाहतिरात्मशक्या, सदा विधेया विविधोपयोगात् ॥ ७ ॥ ॥ इत्येकादशस्थानकेऽरुणदेवकथानकं संपूर्ण ॥ अथ द्वादशस्थानके विवेकिना निर्मलं शीलं पालनीय, यतः-नृषु चक्री सुरेन्चिन्द्रः, पूज्येषु श्रीजिनेश्वरः । यथा मुख्यस्तथा ब्रह्मवतं सर्ववतेष्वपि ॥१॥ चिन्तामणिः करे तस्य, तस्य कल्पद्रुमो गृहे । कामधुग् सविधे तस्य, यस्य शीलं समुज्ज्वलम् ॥२॥ तचाष्टादशभेदं, यथा-दिव्यौदारिकामानां कृतानुमतिकारितैः। मनोवाकायतस्त्यागो, ब्रह्माष्टादशधा मतम् Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy