________________
विशति
सम्यग् , यः श्रद्धत्ते शुभाशयः । तस्य भव्यत्वपाकेन, भवेच्चारित्रयोग्यता ॥ ४७ ॥ तदेशसर्वविरतिस्वरूपाभ्यां द्विधा स्मृतम् । तवाद्यं गृहिणां प्रोक्तं, द्वितीयं तु जितात्मनाम् ॥४८॥ देशचारित्रमाराध्य, प्राणी देवत्वमश्नुते । सिद्धिगामी भवेन्नूनम, सर्वसंयमपालनात् ।। ४९ ॥ मुहर्तयात्रं चारित्रं, यदि स्यानिष्कषायिकम् । वैमानिकपदैश्वर्य, भवेत्प्रायस्तदाऽङ्गिनः ॥५०॥ इत्याकर्ण्य गिरं साधोः, प्रबुद्धोऽसौ महीपतिः । पद्मशेखरपुत्राय, पवित्राय नयश्रिया ॥ ५१ ॥ वितीर्य निजसाम्राज्य, निर्मिताष्टाहिकोत्सवम् । स श्रीमभमुनीन्द्रस्य, पाश्चै शिश्राय संयमम् ॥ ४३ ।। युग्मं ॥ शान्तिदेवी तदा देवी, संवेगरसपूरिता । दीक्षां जग्राह जैनेन्द्रीमनेकांहःक्षयक्षमाम् ।। ५३ ।। अधीयन् द्वादशाङ्गानि, स्थानकानां फलं महत् । अन्यदाऽरुणराजर्षिः, शुश्राव गुरुसन्निधौ ॥ ५४॥ एकादशे पदे साधुः, सम्यग्ज्ञानोपयोगवान् । विधा शुद्धेन विधिना, कुर्वन्नावश्यकक्रियाम् ॥ ५५। तीर्थकृत्पदमासाद्य, मोदते मुक्तिसंपदा । आवश्यकोपयुक्तस्य, गुर्वी स्यानिर्जरा यतः ॥५६॥ यतः-आवश्यकेषु शान्तात्मा, सोपयोगमना मुनिः । दुर्जराण्यपि कर्माणि, तत्क्षणाज्झरति ध्रुवम् ॥ ५७ ॥ श्रुत्वेत्यरुणराजर्षिः, सोऽभिग्रहमजिग्रहत् । पञ्चधाऽपि | परित्यज्य, प्रमादं विषमेष्वपि ॥ ५८ ॥ आवश्यकेषु सर्वेषु, सदा सामायिकादिषु । सम्यक् स्वान्तोपयोगेन, विधा कार्यो मयोद्यमः ॥ ५९॥ युग्मं । सामायिके ततः सम्यक, संयमामलतावहे । कृतसम्यक्त्वनर्मल्ये, चतुर्विशतिसंस्तवे ।। ६० ॥ कुर्वनिश्च्छद्म सर्वत्र, सावधानतयोद्यमम् । राजर्षिस्तीर्थकृत्कर्म, स्वसत्ताकं विनिर्ममे ॥ ६१ ॥ चतुर्भिः कलापकं । षणमासावधि | राजर्षेस्तस्याकारि परीक्षणम् । लक्ष्मीदेवतया घोरैरुपसर्गशतैरपि ॥ ६२ ॥ शब्दरूपरसस्पर्शविषयैः सुखहेतुभिः । क्वचिद्देवाङ्गनावृन्दरमन्दानन्ददायिमिः ॥ ६३ ॥ योगिनोऽपि स्पहामात्रैर्हावभावपुरस्सरम् । प्रार्थितोऽपि स निर्यन्थः, स्नेहगर्भ पदे पदे
-oproan0000049300498020-000000000000000000000
Jan Education Intematonal
For Private 3 Personal Use Only